Enter your Email Address to subscribe to our newsletters

भोपालम्, 09 अप्रैलमासः (हि.स.)।
मध्यप्रदेशे अद्य गुरुवासरात् अष्टमः “पोषण पखवाडः” आरभ्यते। अस्मिन् वर्षे “जीवनस्य प्रथमेषु षट्सु वर्षेषु मस्तिष्कस्य अधिकतमविकासः” इति विषयाधारेण अयं पोषणपखवाडः आयोज्यते, यः २३ एप्रिलपर्यन्तं प्रवर्तिष्यते। अस्य अवधौ विविधाः जागरूकताकार्यक्रमाः आयोज्यन्ते।
जनसम्पर्काधिकारिणी बिन्दु सुनील इत्यनया सूचितं यत् अद्य प्रदेशस्य सर्वेषु आङ्गनवाडीकेन्द्रेषु समुदायस्तरे च स्थानीयजनप्रतिनिधीनां उपस्थितौ पोषणपखवाडस्य शुभारम्भः भविष्यति। अस्मिन् समये “पोषणे चर्चा” कार्यक्रमस्य माध्यमेन समुदायेन सह संवादः स्थाप्यते।
तया उक्तं यत् अस्मिन् पोषणपखवाडे मुख्यतया मातृशिशुपोषणम्, जन्मतः त्रिवर्षपर्यन्तं मस्तिष्कविकासाय प्रारम्भिकप्रोत्साहनम्, त्रिवर्षात् षट्वर्षपर्यन्तं क्रीडानिर्भरशिक्षा, बालानां स्क्रीनटाइम-न्यूनतायां परिवारसमुदाययोः भूमिका, सशक्त-आङ्गनवाडी-निर्माणे सामुदायिकसहयोगः च इत्यादिषु विषयेषु गतिविधयः आयोज्यन्ते।
वैज्ञानिकतथ्यानुसारं मानवमस्तिष्कस्य प्रायः ८५ प्रतिशतं विकासः जन्मतः षट्वर्षपर्यन्तं भवति। एतत् दृष्ट्वा पोषणपखवाडे परिवारसमुदाययोः मध्ये तादृशेषु आचरणेषु जागरूकतावृद्धिः विशेषतया क्रियते, येन बालानां शारीरिकमानसिकविकासः सुदृढः भवति।
अभियानस्य अन्तर्गतं विभिन्नतिथिषु गर्भिणीनां स्त्रीणां बालानां च कृते स्वास्थ्यशिविराः, पोषणसम्बद्धकथावाचनम्, दादी-नानी-अनुभव-साझा-कार्यक्रमाः, स्थानीय-खाद्यसामग्रीभिः पौष्टिकभोजन-प्रतियोगिताः, जङ्क-फूड-दुष्प्रभावेषु जागरूकतारैलयः, बालविकास-चिह्न-परिचय-अभियानम्, मातापितृभ्यः प्रारम्भिकबाल्यावस्था-परिचर्यासत्राणि च आयोज्यन्ते।
अस्य अतिरिक्तं बालानां स्क्रीनटाइम-न्यूनतायै, क्रीडानिर्भर-अध्ययनस्य प्रोत्साहनाय, मातापितृभागीदारीवृद्धये, सामुदायिकसहयोगेन आङ्गनवाडीकेन्द्राणां सुदृढीकरणाय च विशेषगतिविधयः भविष्यन्ति। २२ एप्रिल-दिने “पंखुड़ी पोर्टल” माध्यमेन आङ्गनवाडीकेन्द्राणां कृते सामुदायिकसहयोग-दान-अभियानं प्रवर्तिष्यते, २३ एप्रिल-दिने च “पोषणमेला” आयोज्यते।
पोषणपखवाडस्य अन्तर्गतं सर्वेषु जिल्लेषु रैलयः, पोषणवाटिका-निर्माणम्, प्रश्नोत्तर-प्रतियोगिताः, पोस्टर-नारा-लेखन-प्रतियोगिताः, सोशल-मीडिया-अभियानाः, आङ्गनवाडीकेन्द्रेषु जागरूकताकार्यक्रमाः च आयोज्यन्ते। अस्य अभियानस्य सम्बन्धितगतिविधीनां विवरणं पोषण-अभियानस्य जनआन्दोलन-डैशबोर्डे अभिलेख्यते।
अस्मिन् कार्यक्रमे महिला-शिशुविकास-विभागः, लोकस्वास्थ्य-चिकित्साशिक्षा-विभागः, पंचायत-ग्रामीणविकास-विभागः, जनजातीयकार्य-विभागः, नगरीय-प्रशासन-विकास-विभागः, विद्यालय-शिक्षा-विभागः च अन्यैः विभागैः सह समन्वयेन कार्यक्रमाः आयोज्यन्ते।
---------------
हिन्दुस्थान समाचार