Enter your Email Address to subscribe to our newsletters

भोपालम्, 09 अप्रैलमासः (हि.स.)।
मध्यप्रदेशस्य इन्दौर, उज्जयिनी, भोपाल तथा नर्मदापुरम् संभागेषु अद्य गुरुवासरे रबी विपणन वर्ष २०२६ २७ अन्तर्गत समर्थनमूल्येन गोधूमस्य उपार्जनकार्यं आरभ्यते। अस्य कृते सर्वाः सिद्धताः पूर्णतया कृताः सन्ति। प्रथमं लघु सीमांत कृषकानां गोधूमः क्रयः भविष्यति।
मुख्यमन्त्री डॉ. मोहन यादव महोदयेन सर्वेषु उपार्जनकेन्द्रेषु कृषकाणां कृते सरलसुगमव्यवस्थां सुनिश्चितुं जिला कलेक्टर तथा उपजिलाधिकारीभ्यः निर्देशाः प्रदत्ताः। उपार्जनकेन्द्रेषु कृषकाणां कृते पेयजलस्य छायायुक्तस्थानस्य च व्यवस्था क्रियते। तेन उक्तं यत् राज्ये पर्याप्तं बारदानम् अस्ति। उपार्जनकेन्द्रेषु सहायतालोकाः स्थापिताः सन्ति, जिलास्तरे नियन्त्रणकक्षाः निर्मिताः सन्ति। मुख्यमन्त्री कार्यालयस्थितेन नियन्त्रणकक्षेण सम्पूर्णव्यवस्थायाः सततमवलोकनं क्रियते।
खाद्यनागरिकापूर्तिमन्त्री गोविंद सिंह राजपूत अवदत् यत् अस्मिन् वर्षे राज्ये गोधूमोपार्जनाय अभिलेखनं कृतवन्तः कृषकाः अभूतपूर्वरूपेण १९ लक्ष ४ सहस्राणि सन्ति, यत् गतवर्षात् ३ लक्ष ६० सहस्राधिकम् अस्ति। अस्मिन् वर्षे कृषकाः प्रति क्विन्टलम् २५८५ रूप्यकाणि समर्थनमूल्यं तथा ४० रूप्यकाणि अतिरिक्तबोनस च प्राप्स्यन्ति। पंजीकृतक्षेत्रफलम् ४१ दशमलव ५८ लक्षहेक्टेयरपर्यन्तं अभवत्, यत् गतवर्षात् ६ दशमलव ६५ लक्षहेक्टेयराधिकम् अस्ति।
मन्त्रिणा उक्तं यत् राजस्वविभागेन क्षेत्रसत्यापनानन्तरं स्लॉटबुकिंगप्रक्रिया आरब्धा, येन कृषकाः स्वस्य उपजं विनाकष्टं विक्रेतुं शक्नुवन्ति। गतवर्षे ७७ लक्षमेट्रिकटनपरिमितं गोधूमम् उपार्जितम्। अस्मिन् वर्षे ७८ लक्षमेट्रिकटनपरिमितस्य लक्ष्यं निर्धारितम् अस्ति।
भारतेन ५० सहस्र जूटगठानां अतिरिक्तविनियोगः प्रदत्तः। एचडीपी पीपी बैग तथा एकवारप्रयुक्तजूटबारदानस्य उपयोगस्य अपि अनुमतिः प्रदत्ता। येषु जिल्लेषु भण्डारणक्षमता न्यूनास्ति, तत्र १२० प्रतिशतपर्यन्तं भण्डारणव्यवस्था प्रावर्तिता।
प्रधानमन्त्री गरीबकल्याण अन्नयोजना अन्तर्गत मार्च अप्रैल तथा मई जून २०२६ मासयोः खाद्यान्नवितरणं संयुक्तरूपेण भविष्यति, येन अधिकं १० लक्षमेट्रिकटनपरिमितं भण्डारणस्थानं उपलब्धं भविष्यति।
---------------
हिन्दुस्थान समाचार