Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 09 अप्रैलमासः (हि.स.)।
राष्ट्रियानुसूचित जनजाति वित्त एवं विकास निगम इति संस्थानम् शुक्रवासरे स्वस्य पञ्चविंशतितमं स्थापना-दिवसम् उत्सवेन आचरिष्यति। जुएल ओराम इति जनजातीयकार्य मन्त्री अस्य कार्यक्रमस्य मुख्यातिथिः भविष्यति। अस्मिन् अवसरेदुर्गा दास उइके इति राज्यमन्त्री तथा रंजना चोपड़ा इति जनजातीयकार्य-मन्त्रालयस्य सचिवा अपि उपस्थिताः भविष्यन्ति।
अयं कार्यक्रमः विश्वयुवकेंद्रम् इति स्थले नूतनदिल्ल्यां आयोज्यते।
जनजातीयकार्य-मन्त्रालयेन गुरुवासरे प्रदत्ते वक्तव्ये उक्तं यत् अस्य निगमस्य स्थापना २००१ तमे वर्षे अभवत्। एषः जनजातीयसमुदायानां आर्थिकविकासाय कार्यं कुर्वन् प्रमुखः सरकारी उपक्रमः अस्ति। अयं संस्थानं राज्य-चैनलाइजिंग-एजेन्सीनां माध्यमेन रियायती-वित्तीय-साहाय्यं प्रदाय विविधाः आय-सृजन-क्रियाः प्रोत्साहयति।
अस्मिन् समारोहे देशस्य सर्वतः आगतान् सफलान् अनुसूचित-जनजाति-उद्यमिनः सम्मानिताः भविष्यन्ति, ये निगमस्य योजनाभ्यः वित्तीयसाहाय्यं प्राप्त्वा स्वव्यवसायान् स्थापितवन्तः। एते उद्यमिनः पारम्परिक-भोजन-निर्माणे, स्वास्थ्य-सेवासु, कुक्कुटपालने, दुग्ध-उद्योगे, हस्तशिल्पे, मत्स्यपालने, खुद्र-व्यापारे, सूचिकर्मणि च विविधेषु क्षेत्रेषु कार्यरताः सन्ति।
कार्यक्रमे जनजातीय-संस्कृतेः दर्शनार्थं सांस्कृतिक-प्रस्तुतयः अपि भविष्यन्ति, यासु पारम्परिक-नृत्यानि तथा नुक्कड-नाट्य-प्रदर्शनानि समाविष्टानि सन्ति।
निगमस्य पञ्चविंशतिवर्षीय-जनजातीय-सशक्तीकरणस्य समावेशी-विकासस्य च यात्रायाः उत्सवे अधिकारिणोऽपि भागं गृह्णन्ति।
------------
हिन्दुस्थान समाचार