Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०९ अप्रैलमास: (हि.स.)। केन्द्रीय-सड़क-परिवहन-राजमार्ग-मन्त्री नितिन: गडकरी गुरुवासरे नवदिल्लीस्थे कुतुब-इन्स्टीट्यूशनल-एरिया-प्रदेशे स्थिते छत्रपति शिवाजी-भवने ‘बहुआयामी-संग्रहालयस्य’ उद्घाटनम् अकरोत्। अस्मिन् कार्यक्रमे दक्षिणी-दिल्ली-क्षेत्रस्य सांसदः रामवीर सिंह बिधूड़ी अपि उपस्थितः आसीत्।
अस्मिन् अवसरे नितिन: गडकरी स्वीयसम्बोधने छत्रपति-शिवाजी-महाराजं आदर्श-राजा, आदर्श-पिता, आदर्श-पुत्र तथा आदर्श-प्रशासक: इति वर्णितवान्। तेन उक्तं यत् ते सर्वैः आदर्शैः सम्पन्नाः आसन्।
सः अवदत् यत् छत्रपतिशिवाजीमहाराजस्य जीवनाधारितं एतत् संग्रहालयं आधुनिक-प्रौद्योगिकी-उपयोगेन निर्मितम् अस्ति। तस्य जाज्वल्यः इतिहासः आधुनिक-प्रविधेः माध्यमेन अद्यतन-युवा-वंशं प्रति प्रापयितुं एतत् संग्रहालयं महत्त्वपूर्णं योगदानं दास्यति।
तत् अपि उक्तवान् यत् भूतकालस्य इतिहासः अतीव महत्त्वपूर्णः अस्ति, यस्य वर्तमाने स्मरणेन एव भविष्यस्य नीतयः निर्मीयन्ते। छत्रपतिशिवाजीमहाराजः समस्त-भारतवर्षस्य प्रेरणास्रोतांसि सन्ति। तेषां विचाराधारितेन यूनां चरित्र-निर्माणेन एव आत्मनिर्भर-विश्वगुरु-भारतस्य स्वप्नं साकारं भविष्यति।
रामवीर सिंह बिधूड़ी उक्तवान् यत् अपार-वीरता, कुशल-नेतृत्वं तथा हिन्दू-स्वराज्यस्य संस्थापकत्वेन प्रसिद्धस्य छत्रपतिशिवाजी-महाराजस्य जीवनविषये अस्मात् संग्रहालयात् अधिकं ज्ञातुं शक्यते। अस्मिन् भव्य-संग्रहालये तस्य जीवनसम्बद्धानि वस्तूनि, यथा मुकुटः, अस्त्राणि च प्रदर्शितानि सन्ति।
अस्मिन् अवसरे संग्रहालय-समितेः अध्यक्षः विजय-नवल-पाटीलः, सिङ्घानिया-विश्वविद्यालयस्य अध्यक्षः रवी-सिङ्घानिया तथा अन्ये सदस्याः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता