Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 09 अप्रैलमासः(हि.स.)।केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाहः उक्तवान् यत् यदा विश्वस्य विभिन्नेषु भागेषु स्वस्वविचाराणां स्थापनाार्थं संघर्षः प्रवर्तते, तादृशे काले समग्रमानवतायाः कल्याणाय इत्यस्य सामूहिकजपः अत्यन्तं सार्थकः प्रासंगिकश्च अस्ति। सः अवदत् यत् अद्य विश्वाय शान्तेः सौहार्दस्य परस्परसमझस्य च आवश्यकता वर्तते, या एतेषां आध्यात्मिकप्रयत्नानां माध्यमेन सुदृढा कर्तुं शक्यते।
गुरुवासरे आयोजिते ‘विश्व नवकार महामंत्र दिवस’ नामके कार्यक्रमे मुख्यातिथिरूपेण सम्बोधनं कुर्वन् सः भारतीयसंस्कृतेः आध्यात्मिकपरम्पराणां उल्लेखं कृतवान्। सः उक्तवान् यत् भारतं विविधधर्मसम्प्रदायानां देशः अस्ति, यत्र प्रत्येकपरम्परायां मन्त्राणां विशेषमहत्त्वं आध्यात्मिकशक्तिश्च वर्ण्यते।
अमितशाहः उक्तवान् यत् मन्त्राः मानवजीवनं सकारात्मकदिशां प्रति नयन्ति, चैतन्यं जागरयन्ति, शुभसंकल्पान् दृढीकुर्वन्ति च। सः अवदत् यत् यदा श्रद्धया एकाग्रतया च सह जनाः सामूहिकरूपेण एकस्य मन्त्रस्य जपं कुर्वन्ति, तदा तस्य प्रभावः केवलं व्यक्तिपर्यन्तं न सीमितः भवति, अपि तु समाजे राष्ट्रे विश्वे च सकारात्मकं प्रभावं जनयति।
सः अवदत् यत् अस्माकं ऋषयः मुनयः सिद्धाश्च संततिपरम्परया तपसा साधनया च एतान् मन्त्रान् निर्मितवन्तः, ये समस्तमानवतायाः कल्याणाय सन्ति। एतेषां मन्त्राणां केवलं श्रद्धया स्वीकृतिः न पर्याप्ता, किन्तु तेषां आदर्शानां जीवनान्वयः अपि आवश्यकः।
गृहमन्त्री नवकारमन्त्रस्य विशेषताः प्रकाशयन् अवदत् यत् अयं मन्त्रः पूर्णतः निराकारः निरपेक्षः सार्वभौमिकः च अस्ति, यस्मिन् कश्चन भेदभावः नास्ति। अयं मन्त्रः न कस्यचित् जातेः धर्मस्य क्षेत्रस्य कालस्य वा सीमितः, अपि तु समस्तमानवतायै समरूपेण उपयोगी अस्ति।
सः उक्तवान् यत् ‘नमो’ इति शब्दस्य अर्थः पूर्णसमर्पणम्, यः साधकं अहंकारत्यागस्य आत्मशुद्धेः च मार्गे प्रेरयति। नमनक्रियया एव मनुष्यस्य अन्तः अहंकारस्य क्षयः आरभ्यते, सः च आत्मोन्नतिं प्रति गच्छति।
‘अरिहन्त’ इति शब्दस्य व्याख्यां कुर्वन् सः अवदत् यत् अरिहन्तः सः भवति, यः स्वस्य आन्तरिकशत्रून् यथा क्रोधं मानं मायां लोभं च जयति। जैनशास्त्रेषु तादृशः पुरुषः उच्चतमस्थानं प्राप्नोति। तथैव ‘सिद्ध’ इति सा आत्मा, या जन्ममृत्युचक्रात् मुक्त्वा पूर्णावस्थां प्राप्नोति।
गृहमन्त्री उक्तवान् यत् नवकारमन्त्रे आचार्येभ्यः उपाध्यायेभ्यः साधुभ्यश्च नमः क्रियते। आचार्याः संघस्य प्रमुखाः भवन्ति, अनुशासनमार्गदर्शनयोः कार्यं कुर्वन्ति। उपाध्यायाः शास्त्रज्ञानिनः अध्यापकाः च भवन्ति। साधवः तपसा संयमेन त्यागेन च आत्मशुद्धेः मार्गं अनुसरन्ति। एते सर्वे मिलित्वा ‘पञ्चपरमेष्ठिनः’ इति कथ्यन्ते।
सः अवदत् यत् नवकारमन्त्रस्य मूलभावः एतेषां पञ्चपरमेष्ठीनां गुणान् आत्मसात्कर्तुम् अस्ति। अयं मन्त्रः अस्मान् शिक्षयति यत् वयं महानात्मनां गुणान् स्वजीवने स्थापयेम, आत्मविकासस्य मार्गे अग्रे गच्छेम च। एतेषु पञ्चपरमेष्ठिषु समष्टिरूपेण १०८ गुणाः सन्ति, येषां स्मरणं वन्दनं च क्रियते।
अमितशाह युवभ्यः विशेषतया आग्रहं कृतवान् यत् यदि नवकारमन्त्रस्य गूढार्थः शीघ्रं न अवगम्यते, तथापि अस्य नियमिताभ्यासः अवश्यं करणीयः। कालेन सह, विशेषतः आचार्याणां विद्वत्सन्तानां मार्गदर्शनेन, तस्य गाम्भीर्यं अवगन्तुं शक्यते।
सः उक्तवान् यत् नवकारमन्त्रस्य परम्परा सहस्रवर्षपर्यन्तं प्रवहति, यस्मिन् चतुर्विंशति तीर्थंकराणां तेषां अनुयायिनां च महत्वपूर्णं योगदानम् अस्ति। आदौ अयं मन्त्रः मौखिकपरम्परया प्रसारितः, अनन्तरं शिलालेखेषु ग्रन्थेषु च उल्लिखितः।
अन्ते गृहमन्त्री अवदत् यत् अद्यतनवैश्विकपरिस्थितिषु, यदा अशान्तेः तनावस्य च वातावरणं दृश्यते, नवकारमन्त्रस्य सामूहिकोच्चारणं वातावरणशुद्धिं मानसिकशान्तिं च प्रदातुं समर्थम् अस्ति। अनेन समाजे सौहार्दं संवेदनशीलता परस्परसहयोगभावना च वर्धते।
------------
हिन्दुस्थान समाचार