प्रधानमंत्री मोदी आंतरिक ज्ञानं कथितवान् राष्ट्र प्रगतेः आधारम्
नव दिल्ली, 09 अप्रैलमासः (हि.स.)। नरेन्द्र मोदी गुरुवासरे आन्तरिकज्ञानस्य महत्त्वं प्रकाशयन् एकं संस्कृतसुभाषितं साझीकृतवान्। स उक्तवान् यत् भारतस्य समृद्धा विरासत् संस्कृतिश्च सदा शिक्षयति यत् सत्यं ज्ञानं तस्य सदुपयोगश्च एव राष्ट्रस्य प्रगतिः मू
प्रधानमंत्री नरेन्द्र मोदी


नव दिल्ली, 09 अप्रैलमासः (हि.स.)।

नरेन्द्र मोदी गुरुवासरे आन्तरिकज्ञानस्य महत्त्वं प्रकाशयन् एकं संस्कृतसुभाषितं साझीकृतवान्। स उक्तवान् यत् भारतस्य समृद्धा विरासत् संस्कृतिश्च सदा शिक्षयति यत् सत्यं ज्ञानं तस्य सदुपयोगश्च एव राष्ट्रस्य प्रगतिः मूलाधारः अस्ति।

प्रधानमन्त्री सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यस्मिन् स्वसन्देशे लिखितवान् यत् अस्य मार्गस्य अनुसरणं कुर्वन्तः अस्माकं देशस्य युवा अधुना समृद्धस्य सशक्तस्य च भारतस्य निर्माणे सक्रियां भूमिकां निर्वहन्ति।

तेन इदं सुभाषितं सहकृतम्— “अन्तःस्थमेव यज्ज्ञानं ज्ञानादपि च यत्परम्। तदेव सर्वसंसारसारं सद्भिरुपास्यते॥”

अस्य अर्थं स्पष्टीकुर्वन् स उक्तवान् यत् यत् ज्ञानं अस्माकं अन्तः विद्यमानं भवति, यच्च बाह्यज्ञानात् अपि श्रेष्ठं भवति, तत् एव अस्य सम्पूर्णस्य संसारस्य वास्तविकः सारः अस्ति।

स पुनः अवदत् यत् महान्तः विद्वांसश्च एतदेव आन्तरिकज्ञानं सर्वोच्चं मन्यन्ते तस्य उपासनां कुर्वन्ति च।

प्रधानमन्त्री अवदत् यत् देशस्य युवा शक्ति एतानि मूल्यानि स्वीकृत्य राष्ट्रनिर्माणे महत्त्वपूर्णं योगदानं ददाति।

---------------

हिन्दुस्थान समाचार