Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 09 अप्रैलमासः (हि.स.)।
राष्ट्रवादी कांग्रेस पार्टी (राकांपा) इत्यस्य नेता पार्थ पवारः गुरुवासरे राज्यसभासदस्यरूपेण शपथं स्वीकृतवान्। तस्मै राज्यसभायाः सभापतिना सीपी राधाकृष्णनेन संसद्भवने शपथः दिलितः।
अस्मिन् अवसरे सदनस्य नेता तथा स्वास्थ्य मंत्री जगत प्रकाश नड्डा, राकांपा नेतृ तथा महाराष्ट्रस्य उपमुख्यमन्त्री सुनेत्रा पवार, राकांपा कार्यकारी अध्यक्षः प्रफुल्ल पटेल अन्ये च नेतारः उपस्थिताः आसन्।
पञ्चत्रिंशद्वर्षीयः पार्थ पवारः राकांपा नेता अजीत पवारस्य पुत्रः अस्ति, यस्य गत २८ जनवरी दिने विमानदुर्घटनायां निधनम् अभवत्। अस्मात् पूर्वं तस्य पत्नी सुनेत्रा पवार राज्यसभासदस्या निर्वाचिता आसीत्, किन्तु महाराष्ट्रस्य उपमुख्यमन्त्री पदं प्राप्त्वा सा राज्यसभासदस्यतां त्यक्तवती। अनन्तरं पार्थ पवारः राज्यसभायै निर्वाचितः अभवत्।
अस्मात् पूर्वं पार्थ पवारः २०१९ वर्षे मावल लोकसभा आसनात् निर्वाचनं लब्धवान्, किन्तु तस्मिन् सः पराजितः अभवत्।
-----------
हिन्दुस्थान समाचार