परिवहन-आरक्षक-नियुक्ति-परीक्षार्थं एकविंशतौ केन्द्रेषु पर्यवेक्षकाः नियुक्ताः
जगदलपुरम्, ०९ अप्रैलमासः (हि.स.)। छत्तीसगढ-व्यावसायिक-परीक्षा-मण्डलेन परिवहन-विभागस्य अन्तर्गतं परिवहन-आरक्षकस्य रिक्त-पदानां पूर्त्यर्थम् अग्रिमे १९ अप्रैलमासे लिखित-परीक्षा आयोज्यते। बस्तर-जनपदे अस्याः परीक्षायाः सुचारु-पारदर्शी-सञ्चालनाय उपायुक्
परिवहन आरक्षक भर्ती परीक्षा हेतु 21 केंद्रों पर पर्यवेक्षक नियुक्त


जगदलपुरम्, ०९ अप्रैलमासः (हि.स.)। छत्तीसगढ-व्यावसायिक-परीक्षा-मण्डलेन परिवहन-विभागस्य अन्तर्गतं परिवहन-आरक्षकस्य रिक्त-पदानां पूर्त्यर्थम् अग्रिमे १९ अप्रैलमासे लिखित-परीक्षा आयोज्यते। बस्तर-जनपदे अस्याः परीक्षायाः सुचारु-पारदर्शी-सञ्चालनाय उपायुक्त: आकाश-छिकारा इत्यस्य मार्गदर्शनेन जनपद-प्रशासनेन व्यापक-सज्जा: सम्पन्नाः। परीक्षा निर्दिष्टे रविवासरे १९ अप्रैलमासे प्रातः ११ वादनात् अपराह्ण ०१:१५ वादनपर्यन्तं आयोज्यते, यस्य कृते समग्र-जनपदे आहत्य एकविंशतिः परीक्षा-केन्द्राणि निर्मितानि सन्ति।

उपायुक्त: छिकारा परीक्षायाः सफल-सञ्चालनस्य दृष्ट्या नोडल-अधिकारिणः सहाय्यार्थं सहायक-अधीक्षकः भू-अभिलेख-विभागस्य ब्रजभूषण-देवांगनः तथा आशीष-साहू इत्येतौ सहायक-नोडल-अधिकारी नियुक्तौ। तेन सह सर्वेषां एकविंशति-केन्द्राणां कृते पृथक् पृथक् पर्यवेक्षकाः अपि नियुक्ताः। एतेषां पर्यवेक्षकाणां कृते निर्देशः दत्तः यत् ते परीक्षायाः एकदिनपूर्वं स्व-स्व-नियुक्त-केन्द्राणि निरीक्ष्य सुनिश्चितयन्तु।

परीक्षा-समाप्तेः अनन्तरं सर्वा गोपनीय-सामग्री समर्पयिष्यते। परीक्षायाः सफल-आयोजनाय सम्बन्धित-विभागीय-अधिकारिणः अपि सूचिताः सन्ति, यथा सुरक्षा-गोपनीयता-मानकानां कठोरतया पालनं सुनिश्चितं भवेत्। सर्वे नियुक्त-अधिकारी व्यापम्-द्वारा निर्गतानां निर्देशानां अक्षरशः पालनं करिष्यन्ति, यथा अभ्यर्थिनां किमपि असौविध्यं न भवेत् तथा चयन-प्रक्रियायाः शुचिता अविचलिता तिष्ठेत्।

हिन्दुस्थान समाचार / अंशु गुप्ता