Enter your Email Address to subscribe to our newsletters

पुडुचेरी, 09 अप्रैलमासः (हि.स.)। केन्द्रशासितप्रदेशे पुडुचेरी-नाम्नि राज्ये विधानसभायाः ३० आसनानां कृते अद्य मतदानं प्रवर्तते। प्रथमयोः द्वयोः घण्टयोः अन्तर्गतं १७.४१ प्रतिशतं मतदानं सम्पन्नम् अस्ति। मतदातॄन् मतदानकेन्द्रं प्रति आनयितुं प्रशासनस्तरे प्रयत्नाः क्रियन्ते।
अस्मिन् क्रमणि पुडुचेरी-प्रदेशस्य वीओसी-सरकारी-विद्यालये निर्मिते मतदानकेन्द्रे “निला” नामकः एकः यन्त्रमानवः सर्वेषां ध्यानं आकर्षयति। उपलब्धसूचनानुसारं तत्र मतदातॄन् आकर्षयितुं “निला” नामकः यन्त्रमानवः स्थापितः अस्ति।
अयं यन्त्रमानवः मतदातॄन् पुष्पं दत्त्वा स्वागतम् करोति। “निला” नामकः यन्त्रमानवः पारम्परिकां वेशभूषां “धावणी” धारयन् हस्ते पुष्पपूर्णां टोकरीं वहन् मतदातॄन् अभिनन्दति, येन जनानां ध्यानं विशेषतया आकृष्यते।
पुडुचेरी-निर्वाचनायोगस्य एषा पहलः अनेकैः मतदातृभिः प्रशंस्यते। एषा योजना अधिकाधिकान् मतदातॄन् मतदानकेन्द्रं प्रति आनयितुं कृतः प्रयासः इति दृष्टा भवति।
पुडुचेरी-केन्द्रशासितप्रदेशस्य ३० विधानसभासनानां कृते अद्य प्रातः ७ वादनात् मतदानप्रक्रिया आरब्धा अस्ति। मतदानकेन्द्रेषु उत्साहितानां मतदातॄणां भीड दृश्यते।
प्रथमयोः द्वयोः घण्टयोः अन्तर्गतं १७.४१ प्रतिशतं मतदानं सम्पन्नम् अस्ति। उल्लेखनीयम् यत् २०२१ वर्षस्य विधानसभानिर्वाचने पुडुचेरी-प्रदेशे ८२.२ प्रतिशतं मतदानम् अभवत्।
अस्मिन् निर्वाचने पुडुचेरी-प्रदेशस्य प्रायः ९.५ लक्षाः जनाः मतदानं करिष्यन्ति। अस्मिन् समये ३० आसनानां कृते २९४ अभ्यर्थिनः निर्वाचनस्पर्धायां सन्ति।
---------------
हिन्दुस्थान समाचार