पुदुचेरी विधानसभानिर्वाचनाय प्रातः ७ वादने मतदानं शुभारब्धं, मतदान केंद्रेषु मतदातॄणां सम्मर्दः
पुदुचेरी, 09 अप्रैलमासः (हि.स.)।पुदुचेरी केन्द्रशासितप्रदेशस्य विधानसभानिर्वाचनाय मतदानप्रक्रिया आरब्धा अस्ति। मतदातारः महान् उत्साहेन सह मतदानकेन्द्रेषु उपस्थिताः सन्तः स्वमताधिकारस्य उपयोगं कुर्वन्ति। अद्य प्रातः ७ वादनात् मतदानम् आरब्धम्, किन्तु
पुदुचेरी विधानसभानिर्वाचनाय प्रातः ७ वादने मतदानं शुभारब्धं, मतदान केंद्रेषु मतदातॄणां सम्मर्दः


पुदुचेरी, 09 अप्रैलमासः (हि.स.)।पुदुचेरी केन्द्रशासितप्रदेशस्य विधानसभानिर्वाचनाय मतदानप्रक्रिया आरब्धा अस्ति। मतदातारः महान् उत्साहेन सह मतदानकेन्द्रेषु उपस्थिताः सन्तः स्वमताधिकारस्य उपयोगं कुर्वन्ति। अद्य प्रातः ७ वादनात् मतदानम् आरब्धम्, किन्तु तस्मात् पूर्वमेव मतदानकेन्द्राणां बहिः मतदातॄणां दीर्घाः पङ्क्तयः दृष्टाः।

समग्रे राज्ये आकर्षकाः विषयाधारिताः च मतदानकेन्द्राः निर्मिताः सन्ति, ये मतदातॄणां स्वागतं कुर्वन्ति। प्रत्येकस्मिन् केन्द्रे तीव्रगत्या मतदानम् प्रवर्तते तथा जनाः समूहशः मतदानाय आगच्छन्ति। वृद्धाः, दिव्याङ्गाः असहायाश्च मतदातारः अपि पारिवारिकसदस्यानां साहाय्येन मतदानकेन्द्राणि प्राप्नुवन्ति, येन लोकतन्त्रे प्रति तेषां श्रद्धा दृढा दृश्यते।

सम्पूर्णे प्रदेशे ३० विधानसभा क्षेत्रेषु कुलं १०९९ मतदानकेन्द्राणि स्थापितानि सन्ति। अस्मिन् निर्वाचने कुलं २९४ प्रत्याशिनः प्रतिस्पर्धायाम् सन्ति। पुदुचेरीप्रदेशे ३० क्षेत्राणां कृते १०९९ ईवीएम यन्त्राणि, १०९९ नियन्त्रणएककानि तथा १०९९ वीवीपैट् यन्त्राणि उपयुज्यन्ते। अपरं आपत्कालीनस्थित्यर्थं ३६४ ईवीएम यन्त्राणि, ३६४ नियन्त्रणएककानि तथा ४५९ वीवीपैट् यन्त्राणि आरक्षितानि स्थापितानि सन्ति।

सर्वेषु मतदानकेन्द्रेषु अर्धसैनिकबलानि, पुलिसबलं तथा निर्वाचनाधिकारिणः नियुक्ताः सन्ति। मतदानकेन्द्राणि वेबक्यामरैः नियन्त्रणकक्षेण सह संयोजितानि सन्ति तथा निरन्तरं निरीक्षणं क्रियते। अर्धसैनिकबलैः पुदुचेरीपुलिसेन च त्रिस्तरीया सुरक्षा व्यवस्था प्रवर्तिता अस्ति।

पुदुचेरी विधानसभानिर्वाचनस्य मतगणना आगामिमासस्य ४ दिनाङ्के भविष्यति।

---------------

हिन्दुस्थान समाचार