Enter your Email Address to subscribe to our newsletters

भाेपालम् , 09 अप्रैलमासः (हि.स.)।
मुख्यमन्त्री डॉ. मोहन यादव सिख-धर्मस्य पञ्चम-गुरोः गुरु अर्जन देव इत्यस्य प्रकाश-पर्वणि प्रदेशवासिभ्यः अभिनन्दनं शुभाशयांश्च अर्पितवान्। मुख्यमन्त्री उक्तवान् यत् गुरु-अर्जन-देवस्य सम्पूर्णं जीवनं सेवा-त्याग-मानव-कल्याणस्य च प्रतीकम् अस्ति।
मुख्यमन्त्री डॉ. यादवः गुरुवासरे X माध्यमे सन्देशं प्रकाशितवान्। तस्मिन् सः अवदत्— सिख-धर्मस्य पञ्चम-गुरोः श्री-अर्जन-देवस्य पावन-प्रकाश-पर्वणि हार्दिकाः शुभाशयाः। त्याग-सेवा-समर्पण-सहिष्णुता-भावेषु भवतः प्रेरणा सम्पूर्णस्य विश्वस्य कल्याणस्य प्रेरणास्रोतः अस्ति। मानवता-भ्रातृत्व-सत्य-मार्गे चलनस्य भवतः उपदेशः समाजाय नूतनां दिशं प्रददाति।
---------------
हिन्दुस्थान समाचार