Enter your Email Address to subscribe to our newsletters

- सर्वकारः श्रमिकानां सर्वांगीण कल्याणाय प्रतिबद्धः – वेदप्रकाशगुप्ता
अयोध्या, 01 मईमासः (हि.स.)।
अन्ताराष्ट्रिय-श्रमिक-दिवसे उपश्रमायुक्त-कार्यालयस्य खपराडीह-कोठी-प्राङ्गणे सामूहिकविवाह-कार्यक्रमस्य आयोजनं कृतम्। अस्मिन् कार्यक्रमे आहत्य १६७ युगुलानां विवाहः सम्पन्नः अभवत्, येषु १६४ युगुलानां विवाहः हिन्दू-रीति-रिवाजेन तथा च ३ मुस्लिम-युगुलानां निकाहः मौलविना कारितः।
अस्मिन् कार्यक्रमे उत्तरप्रदेश-सर्वकारस्य श्रम-एवं-सेवायोजन-मन्त्री अनिल राजभरः आभासी-माध्यमेन सम्मिलितः अभवत्, सः श्रमिकेभ्यः सञ्चालित-योजनानां सूचनां दत्तवान्। अस्याः योजनायाः अन्तर्गतं प्रत्येकस्मै नवदम्पतये ८५ सहस्ररूप्यकाणां (85,000) आर्थिकसहायता प्रदत्ता, साथै एव विवाहस्य आयोजनाय प्रति-युगुलं १५ सहस्ररूप्यकाणि (15,000) व्ययं कृतम्।
विधायकः वेद प्रकाश गुप्तः अवदत् -
राज्यसर्वकारः श्रमिकाणां सर्वाङ्गीण-कल्याणाय पूर्णप्रतिबद्धतया कार्यं करोति। सामूहिकविवाहसदृशाः प्रयासाः न केवलं निर्धन-श्रमिक-परिवाराणां साहाय्यं कुर्वन्ति, अपितु तेभ्यः सम्मानेन सह सामाजिक-मुख्यधारायां अग्रे गन्तुम् अवसरमपि प्रयच्छन्ति।
विभागीय-पञ्जीकरणस्य आवाहनम् -
उपश्रमायुक्तः अमित मिश्रः विभागीय-योजनानां विषये जानकारीं दत्तवान्, अधिकतः अधिकश्रमिकान् बोर्ड्-मध्ये पञ्जीकरणं कर्तुं प्रार्थितवान् च। अस्मिन् कार्यक्रमे बहुसंख्यायां जनप्रतिनिधयः, अधिकारिणः, श्रमिकपरिवाराः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता