Enter your Email Address to subscribe to our newsletters

नोएडा, 01 मईमासः (हि.स.)। नोएडा अन्ताराष्ट्रियविमानतलात् १५ जूनदिनाङ्कात् आरभ्य उड्डयनसेवाः प्रारप्स्यन्ते। अनेन सह दिल्ली एनसीआर सहिते समग्रे उत्तरभारते यात्रिकाणां कृते नोएडा विमानतलात् यात्रायाः तथा मालपरिवहनस्य सुविधा उपलभ्य भविष्यति।
यमुना एक्सप्रेसवे औद्योगिकविकासप्राधिकरणस्य मुख्यकार्यपालकाधिकारी आर के सिंह उक्तवान् यत् नोएडा अन्ताराष्ट्रियविमानतलात् १५ जूनदिनाङ्के प्रथमं उड्डयनं इंडिगो विमानसेवया सञ्चालयिष्यते। एतत् उड्डयनं कुत्र गमिष्यति कदा च भविष्यति इति विषये विमानतलप्राधिकरणेन विमानसेवया च शीघ्रमेव घोषणा क्रियते। सः अपि अवदत् यत् नोएडा विमानतलं आधुनिकटर्मिनलसुविधानां सुदृढमूलसंरचनायाः कुशलसञ्चालनस्य च सुदृढबहुविधसंपर्कव्यवस्थायाः च संगमः अस्ति। वाणिज्यिकसञ्चालनस्य आरम्भः क्षेत्रीयसंपर्कं सुदृढीकर्तुं आर्थिकविकासं प्रोत्साहयितुं पर्यटनव्यापारनिवेशादीनां नूतनावसरान् प्रदातुं च सहायकरः भविष्यति।
तेन उक्तं यत् वाणिज्यिकसेवानां प्रारम्भात् पूर्वं विमानतलस्य सुरक्षाव्यवस्था प्रणाल्यः सञ्चालनप्रक्रियाः च नियामकमानदण्डानुसारं पूर्णतया सिद्धाः सन्ति।
प्रथमं उड्डयनं इंडिगो विमानसेवया एव सञ्चालयिष्यते, ततः अनन्तरं शीघ्रमेव अकासा एयर तथा एयर इंडिया एक्सप्रेस अपि अत्र उड्डयनसेवाः प्रारभिष्यन्ते। विविधेषु नगरेषु प्रति आरभ्यमाणानां उड्डयनानां समयसारिणी गन्तव्यस्थानानि यात्रिसेवाश्च विषये शीघ्रमेव सूचना प्रदास्यते।
उल्लेखनीयं च यत् जेवरप्रदेशे स्थितस्य अस्य नवनिर्मितस्य नोएडा अन्ताराष्ट्रियविमानतलस्य उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदिना २८ मार्चदिनाङ्के कृतम्। ततोऽनन्तरं अत्र शीघ्रमेव घरेलू तथा मालवाहकसेवानां प्रारम्भस्य अपेक्षा आसीत्। नागरिकउड्डयनसुरक्षाविभागतः विमानतलसुरक्षाकार्यक्रमस्य अनुमतिः प्राप्ते अनन्तरं अधुना यमुना अन्ताराष्ट्रियविमानतलेन १५ जूनदिनाङ्कात् उड्डयनसञ्चालनस्य घोषणा कृता।
हिन्दुस्थान समाचार