Enter your Email Address to subscribe to our newsletters

नवदिल्लीनगरम्, ०१ मई (हि.स.)। केन्द्रीय-गृह-सहकारिता-मन्त्री अमित-शाहः अद्य लद्दाखस्य लेह-नगरे केन्द्रीय-बौद्ध-अध्ययन-संस्थाने (सीआईबीएस) डेयरी-सहकारी-क्षेत्रसम्बद्धानां बहूनां महत्त्वपूर्ण-परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। अस्मिन् अवसरे केन्द्रीय-मत्स्य-पशुपालन-डेयरी-मन्त्री राजीव-रञ्जन-सिंहः (ललन-सिंहः) तथा लद्दाखस्य उपराज्यपालः विनय-कुमार-सक्सेना अपि उपस्थिताः भविष्यन्ति।
सहकारिता-मन्त्रालयस्य अनुसारेण केन्द्रीय-सर्वकारेण लद्दाखे डेयरी-अवसंरचनायाः सुदृढीकरणाय प्रयत्नाः कृताः सन्ति। शाहः कारगिल-नगरे प्रतिदिनं दश-टन-क्षमतायुक्तस्य डेयरी-प्रकल्पस्य शिलान्यासं करिष्यति, तथा च लेह-नगरे दधि-पनीर-उत्पादन-इकाइः उद्घाटयिष्यति। अस्मिन् अवसरे दुग्ध-भण्डारण-परिवहन-व्यवस्थायाः उन्नयनाय बल्क-मिल्क-कूलर-प्रणाली अपि आरभ्यते।
तथा च एण्ड्रॉयड-आधारितः स्वचालित-दुग्ध-संग्रह-प्रणाली (एएमसीएस) अनुप्रयोगः अपि लोकार्पितः भविष्यति, येन दुग्ध-क्रय-प्रक्रियायां पारदर्शिता वर्धते, कृषकाणां च प्रदानं सुकरं भवति।
मन्त्रालयस्य अनुसारेण दुग्ध-गुणवत्तायाः सुनिश्चित्यर्थं चल-दुग्ध-परीक्षण-प्रयोगशाला अपि उद्घाट्यते। डेयरी-उत्पादनानां विपणन-वितरणयोः संवर्धनाय विविध-हितधारकैः सह सन्धि-ज्ञापनानि (एमओयू) अपि हस्ताक्षरितानि भविष्यन्ति। प्रगतिशील-डेयरी-कृषकाः अपि अस्मिन् अवसरे सम्मानिताः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता