Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, ०१ मईमास: (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य शुक्रवासरे जशपुर-जनपदस्य प्रवासे भविष्यति। निर्धारित-कार्यक्रमानुसारं सः प्रातः ११:१० वादने रायपुर-नगरस्य पुलिस-ग्राउण्ड-हेलीपैडतः प्रस्थानं कृत्वा अपराह्णे १२:२५ वादने विकासखण्ड-कांसाबेल-स्थे ग्रामे बगिया इति स्थानं प्राप्स्यति।
तत्र मुख्यमन्त्री अपराह्णे ०१:०० वादने बगिया-स्थाने ‘समृद्धि एम्-कैड्’ इत्यस्य निर्माण-कार्यस्य विधिवत् शुभारम्भं करिष्यति।
ततः परं सः अपराह्णे ०३:१५ वादने विकासखण्ड-कुनकुरी-स्थे ग्रामे बन्दरचुआं इति स्थानं गत्वा निज-सहायकस्य दीपक-अन्धारे इत्यस्य भ्रातृव्यस्य स्वर्गीय-विवेक-अन्धारे इत्यस्य आकस्मिक-निधन-निमित्तं आयोजिते ब्रह्मभोज-कार्यक्रमे सम्मिलितः भविष्यति।
कार्यक्रमानन्तरं मुख्यमन्त्री सायः सायं ०४:२५ वादने बगिया-हेलीपैडतः रायपुरं प्रति प्रस्थानं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता