Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, ०१ मईमास: (हि.स.)। छत्तीसगढराज्ये सामान्य-जनानां समस्यानां शीघ्र-निराकरणस्य उद्देश्येन अद्यतः “सुशासन-तिहार” इत्यस्य आरम्भः अभवत्। एतत् चत्वारिंशत्-दिवसीयं महाभियानं १० जूनपर्यन्तं प्रचलिष्यति, यस्मिन् ग्रामीण-नगरीय-क्षेत्रेषु विशेष-समाधान-शिविराणि आयोजितानि भविष्यन्ति, यत्र जनानां सूचनानां तस्मिन्नेव स्थले निराकरणं क्रियते।
एतत् अभियानं ग्रामीण-नगरीय-क्षेत्रेषु जन-समस्या-निवारण-शिविराणां माध्यमेन नागरिकाणां समस्यानां त्वरित-समाधानाय तथा सर्वकारी-योजनानां लाभस्य प्रत्यक्ष-रूपेण जनपर्यन्तं प्रापण-स्थापनाय केन्द्रितम् अस्ति। अद्य प्रथम-दिने महासमुन्द-कवर्धा-सुकमा-रायपुर-रायगढ- तथा बिलासपुर-इत्यादिषु अनेक-जनपदेषु विभिन्न-स्थानेषु समाधान-शिविराणां आयोजनं क्रियते।
मुख्यमन्त्री-कार्यालयात् प्राप्त-सूचनानुसारं सुशासन-तिहार-अन्तर्गतं मुख्यमन्त्री विष्णुदेवसायः स्वयं जनपदेषु आकस्मिक-प्रवासं कृत्वा विकास-कार्याणां निरीक्षणं करिष्यन्ति। ते हितग्राहिभ्यः फीडबैक-ग्रहणं कृत्वा समीक्षा-सभाः अपि आयोजयिष्यन्ति। मुख्यमन्त्री सायः सर्वेभ्यः जनपद-उपायुक्त-वर्येभ्यः स्पष्ट-निर्देशान् दत्तवान् यत् जन-सूचनानां समयबद्ध-निराकरणं सुनिश्चितं भवेत्। सः अवदत् यत् पारदर्शी तथा सरल-प्रशासनमेव सुशासनस्य लक्षणम् अस्ति।
अभियानस्य प्रारम्भिक-चरणे प्रशासनाय ३० अप्रैलपर्यन्तं सर्वेषां लंबित-प्रकरणानां निवारणस्य निर्देशाः दत्ताः आसन्। तेषु प्रमुखाः विषयाः सन्ति— नामांतरणम्, वितरणम्, सीमांकनम् इत्यादयः राजस्व-प्रकरणानि, मनरेगा-श्रमिकाणां वेतन-भुगतानम्, हितग्राही-योजनानां लंबित-राशिः, आय-जाति-निवास-प्रमाणपत्राणि, विद्युत्-ट्रान्सफार्मर-पेयजल-सम्बद्धाः समस्याः। तदतिरिक्तं पात्र-जनानां उज्ज्वला-योजना, राशन-कार्ड, आयुष्मान-भारत-योजना तथा सामाजिक-सुरक्षा-पेंशन-लाभप्रदानाय अपि विशेषं बलं दीयते।
सुशासन-तिहार-अन्तर्गतं १ मईमासतः १० जूनपर्यन्तं शिविराणि आयोजितानि भविष्यन्ति। ग्रामीण-क्षेत्रेषु १५–२० ग्राम-पञ्चायतानां समूह-आधारे, नगरीय-क्षेत्रेषु वार्ड-क्लस्टर-आधारेण शिविराणि भविष्यन्ति, यत्र स्थले एव आवेदनं तथा समाधानं क्रियते। अधिकतमं एक-मासाभ्यन्तरे शिकायतानां निवारणं अपि सुनिश्चितं भविष्यति। शिविरेषु योजनानां जानकारी सह आवेदकानां आवेदन-स्थितिः अपि प्रदर्श्यते।
अस्मिन् अभियाने मन्त्री, सांसदाः, विधायकाः तथा वरिष्ठ-अधिकारीणः निरन्तरं शिविराणां निरीक्षणं करिष्यन्ति। सामान्य-जनैः सह प्रत्यक्ष-संवादं कृत्वा तेषां समस्याः अवगम्य तत्रैव समाधानं सुनिश्चितं क्रियते।
सर्वकारेण एतत् अभियानं व्यापक-जनसहभागितया योजितः अस्ति। जनसम्पर्क-विभागः डिजिटल-, मुद्रित- तथा स्थानीय-माध्यमैः अस्य प्रचार-प्रसारं करिष्यति, येन अधिकाधिकाः जनाः अस्याः योजनायाः लाभं प्राप्नुयुः।
हिन्दुस्थान समाचार / अंशु गुप्ता