ओडिशायाः मुख्यमंत्री नेता प्रतिपक्षश्च श्रमिक दिवसावसरेऽददात् शुभकामनाः
भुवनेश्वरम्, 01 मईमासः(हि.स.)।ओडिशा-राज्यस्य मुख्यमन्त्री मोहन चरण माझी तथा प्रतिपक्षनेता नवीन पटनायक उभौ अंताराष्ट्रिय श्रमिक दिवस-अवसरे राज्यस्य श्रमिकेभ्यः शुभाशंसाः प्रदत्तवन्तौ, विकासे तेषां महत्त्वपूर्णं योगदानं च रेखाङ्कितवन्तौ। एकस्मिन् सा
ओडिशायाः मुख्यमंत्री नेता प्रतिपक्षश्च श्रमिक दिवसावसरेऽददात् शुभकामनाः


भुवनेश्वरम्, 01 मईमासः(हि.स.)।ओडिशा-राज्यस्य मुख्यमन्त्री मोहन चरण माझी तथा प्रतिपक्षनेता नवीन पटनायक उभौ अंताराष्ट्रिय श्रमिक दिवस-अवसरे राज्यस्य श्रमिकेभ्यः शुभाशंसाः प्रदत्तवन्तौ, विकासे तेषां महत्त्वपूर्णं योगदानं च रेखाङ्कितवन्तौ।

एकस्मिन् सामाजिकमाध्यमसन्देशे मुख्यमन्त्री श्रमिकान् कर्मकरान् च हार्दिकाभिनन्दनानि दत्त्वा तान् ओडिशायाः प्रगतेः मेरुदण्डः इति उक्तवान्। तेन राज्यनिर्माणे तेषां समर्पणं धैर्यं प्रतिबद्धता च प्रशंसिता। सः अवदत् यत् राज्यसरकारः श्रमिकाणां अधिकाररक्षणे, तेषां कल्याणवर्धने, सम्मानजनकजीविकावसरसृजने च प्रतिबद्धा अस्ति। तेन सर्वान् प्रति आह्वानं कृतं यत् वयं संयुक्तरूपेण श्रमिकान् सशक्तीकृत्य समावेशिनं समृद्धं च ओडिशाराज्यं निर्माम।

तत्रैव प्रतिपक्षनेता नवीनपटनायकः स्वसन्देशे राष्ट्रस्य राज्यस्य च विकासे श्रमिकाणां महत्त्वपूर्णां भूमिकां प्रकाशयामास। तेन प्रत्येकस्य विकासकार्यस्य पृष्ठतः स्थितं श्रमिकाणां अतुलनीयत्यागसमर्पणयोः प्रति सम्मानः व्यक्तः। तेन अपि उक्तं यत् बीजू जनता दल-सर्वकारस्य कार्यकाले श्रमिकाणां सर्वाङ्गीणविकासाय कल्याणाय च महत्त्वपूर्णानि पदानि स्वीकृतानि आसन्। सः श्रमिकहितसंरक्षणे तेषां कल्याणे च स्वीयां निरन्तरप्रतिबद्धतां पुनरुक्तवान्।

---------------

हिन्दुस्थान समाचार