Enter your Email Address to subscribe to our newsletters

मुंबई, 01 मईमासः (हि.स.)। महाराष्ट्रदिवसस्य अवसरस्य निमित्तं समग्रे राज्ये उत्साहस्य गौरवस्य च वातावरणं दृष्टम्। अस्मिन् अवसरे मुख्यमन्त्री देवेंद्र फडणवीस हुतात्मा-स्मारके उपगत्य संयुक्तमहाराष्ट्र-आन्दोलने बलिदानं कृतवन्तः वीरान् प्रति श्रद्धाञ्जलिं समर्पितवान्। राज्यपालः जिष्णु देव वर्मा लोकभवने राष्ट्रियध्वजं आरोह्य समारोहस्य शुभारम्भं कृतवान्।
मुंबई-नगर्यां आयोजिते मुख्य-समारोहे मुख्यमन्त्री फडणवीस महाराष्ट्रस्य ऐतिहासिकां सांस्कृतिकां च यात्रां स्मारयन् अवदत् यत् छत्रपति शिवाजी महाराजेन स्थापितः “महाराष्ट्रधर्मः” राज्यस्य दृढां परिचय-प्रतिष्ठां कृतवान्। सः उक्तवान् यत् अद्य महाराष्ट्रः देशस्य “शक्ति-इंजनं विकास-इंजनं च” अभवत् तथा च निरन्तरं विकासमार्गे अग्रे गच्छति।
तेन संयुक्तमहाराष्ट्र-आन्दोलनं 1956 तः 1960 पर्यन्तं स्मारयन् उक्तम् यत् एतत् मराठीभाषिणां जनानां कृते मुंबईसहितस्य एकीकृतराज्यस्य निर्माणार्थं कृतः ऐतिहासिकः संघर्षः आसीत् येन आधुनिकमहाराष्ट्रस्य आधारः स्थापितः। मुख्यमन्त्री राज्यवासिभ्यः महाराष्ट्रदिवसस्य श्रमिकदिवसस्य च शुभाशयान् प्रेषितवान् तथा उक्तवान् यत् राज्यस्य प्रगति श्रमिकानां परिश्रमस्य परिणामः अस्ति।
राज्यपालः जिष्णु देव वर्मा लोकभवने ध्वजारोहणं कृत्वा राष्ट्रगीतस्य राष्ट्रगानस्य राज्यगीतस्य च निनादेन समारोहं गौरवान्वितं कृतवान्। अस्मिन् कार्यक्रमे वरिष्ठ-प्रशासनिक-अधिकारीणः पुलिसदलस्य सदस्याश्च उपस्थिताः आसन्। ज्ञातव्यं यत् महाराष्ट्रदिवसः प्रतिवर्षं मे-मासस्य प्रथमदिने आचर्यते यः 1960 वर्षे राज्य-निर्माणस्य स्मरणार्थं आयोज्यते। अयं दिवसः संयुक्तमहाराष्ट्र-आन्दोलनस्य ऐतिहासिक-विजयस्य मराठी-अस्मितायाः सम्मानस्य च प्रतीकः मन्यते।
एतस्मिन् एव काले नागपुर-नगर्यां पृथक् विदर्भ-राज्यस्य मांगं कृत्वा केचन युवानः विरोध-प्रदर्शनं कृतवन्तः। प्रदर्शनकारिणः स्थानीय-रिजर्व-बैंक-चतुष्पथे कृष्ण-ध्वजान् उत्थाप्य कृष्ण-वर्णीय-गुब्बारान् मोचितवन्तः तथा महाराष्ट्रदिवसस्य विरोधं दर्शितवन्तः।
अकस्मात् जातेन अस्मिन् प्रदर्शन-कार्येण किञ्चित्कालं यावत् वातावरणं तनावपूर्णम् अभवत्। पुलिसबलं तत्र उपगत्य स्थितिं नियंत्रितवान् तथा प्रदर्शनकारिणःनिग्रहं नीतवन्तः।
पुलिस-कार्यवाह्याः अनन्तरं स्थिति: सामान्याभवत् तथा क्षेत्रे पुनः शान्तिः स्थापिताभवत्।---------------------------
हिन्दुस्थान समाचार