Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 01 मईमासः (हि.स.)।ओडिशा-राज्यस्य मुख्यमन्त्री मोहन चरण माझी महान् सान्तालीसाहित्यकारं समाजसुधारकं च रघुनाथ मुर्मू-पण्डितं तस्य जयन्त्याः अवसरे भावपूर्णां श्रद्धाञ्जलिं अर्पितवान्।
अस्मिन् अवसरे मुख्यमन्त्री भुवनेश्वर-नगरे विधानसभा-समीपे स्थितायां पण्डितरघुनाथमुर्मोः प्रतिमायां पुष्पाञ्जलिं अर्पितवान्। कार्यक्रमे सुरमा पाढ़ी अपि उपस्थितवती।
मुख्यमन्त्री सामाजिकमाध्यमे स्वसन्देशे पण्डितरघुनाथमुर्मूं “गुरु गोमके” इति स्मृत्वा तम् सान्तालीभाषायाः प्रख्यातसाहित्यकारं, महान् समाजसुधारकं, ओलचिकी-लिपेः जनकं च इति नमस्कृतवान्।
तेन उक्तं यत् सांस्कृतिक-अस्मितायाः संरक्षणे तथा सान्तालीभाषायाः वैश्विकस्तरे विशिष्टपरिचयप्राप्तौ तस्य योगदानं अतुलनीयम् अस्ति।
मुख्यमन्त्री जनान् प्रति आह्वानं कृतवान् यत् ते अस्मिन् पावनावसरे पण्डितमुर्मोः आदर्शेभ्यः प्रेरणां गृह्णन्तु, समृद्धां सांस्कृतिकनिक्षेपं संरक्षितुं तथा सशक्तं समावेशिनं समाजं निर्मातुं संकल्पं कुर्वन्तु।
---------------
हिन्दुस्थान समाचार