Enter your Email Address to subscribe to our newsletters

जयपुर-नगरम्, ०१ मईमासः (हि.स.)। मुख्यमन्त्री भजनलाल-शर्मा जनगणना-२०२७ अन्तर्गतं गुरुवासरात् प्रारब्धायां स्व-गणना-प्रक्रियायां स्वयमेव भागं गृहीत्वा प्रदेशवासिनः प्रेरितवान्। मुख्यमन्त्री आधिकारिक-पटले स्वीय-विवरणं निवेश्य स्व-गणना-प्रपत्रं पूरयन् अस्मिन् राष्ट्रिय-अभियाने सक्रिय-सहभागितां कृतवान्।
मुख्यमन्त्री अवदत् यत् जनगणना-२०२७ ‘डिजिटल-भारत’ तथा ‘विकसित-भारत-२०४७’ इति संकल्पयोः साकारतायै एकं महत्त्वपूर्णं पदम् अस्ति। तेन उक्तं यत् एषा केवलं विवरणानां संकलनं न, अपितु देशस्य समग्र-विकासस्य, नीति-निर्माणस्य तथा भविष्य-योजनानां दृढा आधारशिला अस्ति। सः प्रदेशस्य देशस्य च सर्वान् नागरिकान् प्रति आह्वानं कृत्वा अवदत् यत् प्रत्येकं जनः अस्मिन् महाभियाने उत्साहेन भागं गृह्णातु तथा स्व-गणनया राष्ट्र-निर्माणस्य अस्य महत्त्वपूर्ण-कार्यक्रमस्य सफलतायै योगदानं ददातु।
मुख्यमन्त्री अवदत् यत् आधुनिक-प्रौद्योगिक्याः माध्यमेन स्व-गणनायाः सुविधा सामान्यजनाय सरलां पारदर्शिनीं सुविधाजनकीं च प्रक्रियां प्रददाति। अनेन नागरिकाः गृहे उपविष्टाः स्वीय-विवरणं सुरक्षिततया निवेशयितुं शक्नुवन्ति। उल्लेखनीयम् अस्ति यत् राजस्थान-राज्ये जनगणना-२०२७ प्रथम-चरणस्य अन्तर्गतं १६ मई-दिनाङ्कात् प्रगणकाः गृहं गृहं गत्वा गृह-सूचीकरणं गृह-गणना-कार्यं च प्रारम्भयिष्यन्ति। अस्मात् पूर्वं १ मई-दिनाङ्कात् १५ मई-दिनाङ्कपर्यन्तं नागरिकेभ्यः अन्तर्जाल-स्व-गणनायाः विशेष-सुविधा प्रदत्ता अस्ति, यस्याः माध्यमेन ते स्वयमेव स्वीय-विवरणं निवेशयितुं शक्नुवन्ति।
राज्य-सर्वकारेण अस्य अभियानस्य व्यापक-सहभागिताद्वारा सफलतायै सामान्यजनात् सक्रिय-सहयोगः अपेक्षितः। मुख्यमन्त्रिणः एषः प्रयत्नः जनगणना-अभियानं प्रति जागरूकतां वर्धयितुं महत्त्वपूर्णः संदेशः इति मन्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता