कल्याणिका हिमालय देवस्थानम न्यासे मुख्यमंत्री अकरोत् प्रतिभागम्
अल्मोड़ा, 01 मईमासः (हि.स.)। अल्मोड़ा-जनपदस्य डोल-स्थाने स्थितस्य श्रीकल्याणिका-हिमालय-देवस्थानम् न्यासस्य श्रीपीठ-स्थापना-महोत्सव-कार्यक्रमे मुख्यमन्त्री पुष्कर सिंह धामी इत्यनेन सहभागिता कृता। अस्मिन् अवसरे मुख्यमन्त्री ११०० कन्यानां पूजनं कृ
डोल आश्रम में कन्या पूजन कार्यक्रम में प्रतिभाग करते मुख्यमंत्री धामी


अल्मोड़ा, 01 मईमासः (हि.स.)।

अल्मोड़ा-जनपदस्य डोल-स्थाने स्थितस्य श्रीकल्याणिका-हिमालय-देवस्थानम् न्यासस्य श्रीपीठ-स्थापना-महोत्सव-कार्यक्रमे मुख्यमन्त्री पुष्कर सिंह धामी इत्यनेन सहभागिता कृता। अस्मिन् अवसरे मुख्यमन्त्री ११०० कन्यानां पूजनं कृत्वा माँ राजेश्वरीदेव्याः अभिषेकं पूजा-अर्चनां च कृतवान् तथा प्रदेशस्य देशस्य च सुख-समृद्ध्यर्थं कामनाम् अकरोत्।

डोल-आश्रमे आगमनकाले तेन आश्रम-परिसरे स्थापितं श्रीयन्त्रं तथा अत्र सञ्चालिताः आध्यात्मिक-क्रियाकलापाः अवलोकिताः। स उक्तवान् यत् अत्र स्थापितं विश्वस्य महत्तमं श्रीयन्त्रं दृष्ट्वा विशेषा आध्यात्मिकानुभूतिः जायते। तेन अपि उक्तं यत् बाबा कल्याणदासस्य साधना तपश्चर्या च कारणेन एतत् स्थानं अद्य विश्वस्तरे विशिष्टां परिचयं प्राप्तवन् अस्ति तथा आध्यात्मिक-चेतनाया प्रसारस्य प्रमुखं केन्द्रं जातम्।

तथा च तेन बाबा कल्याणदासेन वैश्विकस्तरे आध्यात्मिक-चेतनाया प्रसारार्थं क्रियमाणानां प्रयासानां प्रशंसा कृता। मुख्यमन्त्री उक्तवान् यत् एषः आश्रमः धार्मिक-आस्थायाः आध्यात्मिक-साधनायाः सांस्कृतिक-चेतनायाश्च प्रमुखं केन्द्रं भूत्वा स्थितः अस्ति, यत्र बहुसंख्यकाः श्रद्धालवः आगत्य आध्यात्मिकानुभूतिं प्राप्नुवन्ति।

सः अपि अवदत् यत् राज्य-सरकारः आध्यात्मिक-पर्यटनस्य संवर्धनार्थं निरन्तरं प्रयत्नशीलः अस्ति, तथा च चारधाम-यात्रायां प्रतिवर्षं वर्धमानः श्रद्धालूनां संख्या प्रदेशे विकसितानां उत्तम-व्यवस्थानां सुविधानां च परिणामः अस्ति।

अस्मिन् कार्यक्रमे केन्द्रीय-राज्यमन्त्री अजय टम्टा, विधायकः मोहन सिंह मेहरा, विधायकः मनोज तिवारी, पूर्व-विधानसभा-अध्यक्षः गोविन्द सिंह कुंजवाल, भाजपा-जिलाध्यक्षः महेश नयाल, जिलाधिकारी अंशुल सिंह, वरिष्ठ-पुलिस-अधीक्षकः चन्द्रशेखर आर घोड़के, मुख्य-विकास-अधिकारी रामजीशरण शर्मा इत्यादयः अन्ये अधिकारी जनप्रतिनिधयः च बहुसंख्यकाः श्रद्धालवः उपस्थिताः आसन्।

हिन्दुस्थान समाचार