Enter your Email Address to subscribe to our newsletters

नव-दिल्ली, ०१ मईमासः (हि.स.)। दिल्ली-नगरे मुख्यमन्त्री रेखा-गुप्ता शुक्रवासरे अन्ताराष्ट्रिय-श्रमिक-दिवसावसरे प्रतिवर्षं ३५ सहस्र-श्रमिकान् प्रशिक्षयितुं कौशल-विकास-अभियानस्य शुभारम्भं कृतवती।मुख्यमन्त्री धीरपुर-स्थिते सन्त-निरंकारी-चिकित्सालयस्य निर्माण-स्थले श्रम-विभागेन तथा दिल्ली-भवन-निर्माण-श्रमिक-कल्याण-परिषदा आयोजिते श्रमिक-सम्मान-समारोहे सहभागिनी अभवत्। तया श्रमिकाणां कृते शीघ्रमेव आधुनिक-लेबर-चौक तथा श्रमिक-सेवा-केन्द्राणि स्थापयिष्यन्ते इति घोषणा कृता, तथा उक्तं यत् एतेषां माध्यमेन आवश्यकाः सेवाः प्रत्यक्षं श्रमिकेभ्यः प्राप्स्यन्ति।
मुख्यमन्त्री अस्मिन् अवसरे सहस्रं निर्माण-श्रमिकेभ्यः सुरक्षा-किट् वितरितवती तथा श्रमिक-परिवाराणां शतं बालकेभ्यः शिक्षा-किट् अपि प्रदत्तवती। तया श्रमिकैः सह संवादं कृत्वा तेषां समस्याः ज्ञाताः तथा तासां समाधानस्य आश्वासनं दत्तम्। राष्ट्रिय-राजधानी-क्षेत्रे प्रवर्तमानानां विकास-कार्याणां प्रवेग-वृद्धौ श्रमिकाणां योगदानं प्रशंसन्ती सा अवदत् यत् श्रमिक-भ्रातृभिः भगिनिभिः च कृतस्य अथक-परिश्रमस्य कारणात् एव महान्ति निर्माण-कार्याणि समये एव सम्पन्नानि भवन्ति।
मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणा नरेन्द्र-मोदिना श्रमयोगिनां सम्मानं शासनस्य चिन्तने नीतौ च केन्द्रे स्थापितम् अस्ति। तस्य मार्गदर्शनेन ‘विकसित-भारत’ इति संकल्पः श्रमिक-सशक्तीकरणेन एव अग्रे गच्छति, यत्र प्रत्येकः श्रमिकः सुरक्षितः, सम्मानितः अवसरैः सह सम्बद्धः च भवति। अस्याः एव भावनायाः अनुरूपं अस्माकं सर्वकारेण पञ्जीकृत-निर्माण-श्रमिकाणां कृते पञ्जीकरण-नवीनीकरण-शुल्कं पूर्णतया क्षमा कृता अस्ति। अपि च “सामूहिक-विवाह-योजना” माध्यमेन श्रमिक-परिवारेभ्यः सम्मानपूर्वकं सहयोगः प्रदास्यते।
अस्मिन् अवसरे मन्त्रिमण्डल-मन्त्रिणा कपिल-मिश्रेण सह बहवः श्रमिकाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता