Enter your Email Address to subscribe to our newsletters

धारचूलानगरम्, ०१ मईमासः (हि.स.)। उत्तराखण्ड-राज्यस्य सीमान्त-जनपदस्य पिथौरागढ़स्य धारचूला-नगरात् शुक्रवासरे ‘आदि-कैलाश-यात्रा २०२६’ इत्यस्य विधिवत् शुभारम्भः अभवत्। अस्मिन् अवसरे श्रद्धालूनां यात्रिणां च मध्ये विशेषः उत्साहः दृष्टः। प्रशासन-पक्षतः यात्रां सुरक्षितां सुव्यवस्थितां च कर्तुं विस्तृताः व्यवस्थाः कृताः।
शुक्रवासरे धारचूला-नगरस्य उपजिलाधिकारी आशीष-जोशी त्रिणी वाहनानि हरित-ध्वजं दर्शयित्वा यात्रिणां दलं प्रस्थितम्। अधिकारिभिः उक्तं यत् यात्रा-मार्गे सुरक्षा-स्वास्थ्य-आवास-तथा अन्येषां मूलभूत-सौविध्यानां सम्यक् व्यवस्था सुनिश्चिता अस्ति। तेन उक्तं यत् यात्रायै आहत्य ५०० आवेदनानि प्राप्तानि, येषु ३५० ‘इनर-लाइन-परमिट् (आईएलपी)’ निर्गतानि सन्ति। सः अपि अवदत् यत् यात्रिषु यात्रां प्रति महान् उत्साहः वर्तते तथा प्रशासनस्य पक्षतः सुरक्षित-सुगम-यात्रायै सर्वाः व्यवस्थाः पूर्णतया सम्पन्नाः सन्ति।
प्रशासनेन यात्रिभ्यः आह्वानं कृतं यत् ते यात्रां प्रति निर्गमनात् पूर्वं ऋतोः अद्यतन-सूचनाम् अवश्यं प्राप्नुयुः। उच्च-हिमालय-प्रदेशं दृष्ट्वा यात्रिभ्यः यथाशक्ति लघु-वाहनानां उपयोगः करणीयः इति परामर्शः दत्तः। प्रशासनस्य अनुसारं यात्रा-मार्गः पूर्णतया सुचारुः अस्ति तथा मार्गः उद्घाटितः अस्ति। मार्गाणां संरक्षण-सञ्चालनयोः कृते सीमा-मार्ग-सङ्गठनं (बीआरओ) सक्रियं कृतम्।
यात्रिणां सुरक्षा-सौविध्ययोः विचारं कृत्वा विभिन्नेषु स्थानेषु प्रशासनिक-अधिकारीणां सुरक्षा-बलानां च नियुक्तिः कृता। सर्वे सम्बन्धित-विभागाः संस्थाः च सतर्क-अवस्थायां कार्यं कुर्वन्ति तथा आवश्यकाः व्यवस्थाः सुनिश्चिताः सन्ति। यात्रायाः पूर्वं आईएलपी-परमिट्, स्वास्थ्य-सावधानताः तथा ऋतु-सम्बद्ध-निर्देशाः अनिवार्यतया पालनीयाः इति अपि निर्दिष्टम्।
हिन्दुस्थान समाचार / अंशु गुप्ता