राजस्थानस्य युवपरिश्रमं, नवाचारं बहुभाषीकौशलं चालक्ष्य वैश्विक अवसरेभ्यस्सज्जा - केंद्रीय शिक्षा मंत्री
जयपुरम्, 01 मईमासः (हि.स.)। केंद्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः अवदत् यत् राजस्थानराज्यस्य युवासु परिश्रमः नवोन्मेषः उद्यमिता च विविधभाषासंस्कृतिषु आत्मसात्करणस्य अद्भुता क्षमता दृश्यते। तेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदीनः नेतृत्वे अ
एमओयू


जयपुरम्, 01 मईमासः (हि.स.)।

केंद्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः अवदत् यत् राजस्थानराज्यस्य युवासु परिश्रमः नवोन्मेषः उद्यमिता च विविधभाषासंस्कृतिषु आत्मसात्करणस्य अद्भुता क्षमता दृश्यते। तेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदीनः नेतृत्वे अधुना देशस्य युवा केवलं उपाधिप्रमाणपत्रपर्यन्तं न सीमितः, किन्तु कौशलविकासे वैश्विकस्पर्धायां बहुआयामिकावसरेषु च अग्रे गच्छति।

जयपुरनगरस्य बिरलाऑडिटोरियम् इति स्थले शुक्रवासरे आयोजितस्य विदेशीभाषासंवादकौशलकार्यक्रमस्य एमओयू समारोहम् उद्दिश्य सः अवदत् यत् राष्ट्रीयशिक्षानीतिः २०२० शिक्षा बहुभाषिकां आधुनिकां च कृत्वा अन्ताराष्ट्रियस्तरे स्पर्धाक्षमां कर्तुं ऐतिहासिकं पदम् अस्ति। अस्याः नीत्याः अन्तर्गतं यूनां मातृभाषया सह विदेशीभाषाज्ञानं दत्त्वा तान् विश्वस्तरीयावसरेषु सज्जीकृत्यते।

सः अवदत् यत् भाषा केवलं संवादमाध्यमं न, अपि तु समाजसंस्कृत्योः वैश्विकबोधस्य च संयोजनीया महत्त्वपूर्णा कडी अस्ति। फ्रेञ्च् जर्मन् जापानी कोरियन् स्पेनी इत्यादीनां भाषानां अध्ययनं युवानां कृते रोजगारव्यापारतकनीकीसहयोगे अन्ताराष्ट्रियसम्बन्धेषु च नूतनद्वाराणि उद्घाटयिष्यति।

धर्मेन्द्रप्रधानः अवदत् यत् यूरोपीयसंघेन सह कृतस्य मुक्तव्यापारसम्झौतेन सह एशियादेशैः सह वर्धमानैः आर्थिकसम्बन्धैः विदेशीभाषादक्षतायुक्तानां युवानां मागा तीव्रतया वर्धिष्यते। जापान कोरिया यूरोपीयदेशेषु च न केवलं सॉफ्टवेयरक्षेत्रे अपि तु हार्डट्रेड् तकनीकीसेवाः विपणनं आतिथ्यसेवा च भारतीययुवानां कृते विशालाः सम्भावनाः सन्ति।

सः उक्तवान् यत् यदि राजस्थानस्य युवानः विदेशीभाषासु दक्षाः भवन्ति तर्हि ते पर्यटनं होटलप्रबन्धनं यात्राउद्योगं अन्ताराष्ट्रियव्यापारं वैश्विकसेवाक्षेत्रं च महत्त्वपूर्णतया वहिष्यन्ति। विदेशीभाषाज्ञानस्य माध्यमेन राजस्थानस्य समृद्धसंस्कृतिपरम्परा लोककथाः ऐतिहासिकगौरवं च वैश्विकस्तरं प्राप्स्यति। सः उदाहरणरूपेण अवदत् यत् भविष्ये पृथ्वीराजचौहानस्य वीरगाथाः विदेशीभाषासु अनूदिताः भूत्वा विश्वे राजस्थानस्य परिचयं दृढीकुर्युः।

केंद्रीयकौशलविकासउद्यमिताराज्यमन्त्री जयन्तचौधरी अवदत् यत् एषा पहल भारतीययुवानां कौशलं वैश्विकमञ्चे स्थापयित्वा अन्ताराष्ट्रियावसरेषु द्वाराणि उद्घाटयिष्यति। अयं विदेशीभाषासंवादकौशलकार्यक्रमः राजस्थानस्य युवान् वैश्विकस्पर्धया उत्तमरोजगारेण उद्यमितया सांस्कृतिकविस्तारेण च संयोजयन् ऐतिहासिकः उपक्रमः इति मन्यते, येन प्रदेशस्य युवा शक्तिः नूतनां दिशां नूतनां परिचयं च प्राप्स्यति।

कार्यक्रमे मुख्यमंत्री भजनलालशर्मा अवदत् यत् वर्तमानराज्यसरकारेण युवानां कृते प्रश्नपत्रलीक् इत्यादिसमस्याभ्यः मुक्तिः प्रदत्ता पारदर्शीभर्तीव्यवस्था च स्थापिताऽस्ति। तेन उक्तं यत् अधुना पर्यन्तं ३५१ परीक्षाः विना प्रश्नपत्रलीक् सफलतया आयोजिताः। सः अवदत् यत् राज्यसरकारः शिक्षां रोजगारकौशलयोः सह संयोज्य युवान् जीविकायाचकान् न कृत्वा रोजगारदातॄन् निर्माति।

राज्यसरकारेण इंग्लिश् एण्ड् फॉरेन लैंग्वेज् विश्वविद्यालयेन नेशनल स्किल डवलपमेंट् कॉरपोरेशन इत्यादिभिः सह विविधसम्झौताः कृताः। तेषां माध्यमेन युवानां कृते विदेशीभाषाप्रशिक्षणं स्किल इंडिया अन्तरराष्ट्रीयकेन्द्रस्य जयपुरे स्थापना उद्यमिताविकासकार्यक्रमाणां लाभः च प्रदास्यते।

मुख्यमंत्री अवदत् यत् प्रदेशे ७१ नूतनाः राजकीयमहाविद्यालयाः उद्घाटिताः १८५ नूतनमहाविद्यालयभवनानि निर्मितानि लक्षाधिकाः सरकारीनियुक्तयः दत्ताः च लक्षशः रोजगारावसराः सृजिताः।

उपमुख्यमंत्री डॉ प्रेमचन्दबैरवा अवदत् यत् अयं एमओयू केवलं कागजीसम्झौतं न, अपि तु युवान् अवसरैः संयोजयितुं शक्तिशाली प्रभावी माध्यमम् अस्ति। कौशलनियोजनउद्यमिताराज्यमन्त्री के के विश्नोई अवदत् यत् प्रधानमन्त्रिणः नेतृत्वे युवानां प्रतिभा विकसिताऽस्ति।

अस्मिन् अवसरे राज्यसर्वकारेण इंग्लिश् एण्ड् फॉरेन लैंग्वेज् विश्वविद्यालयेन हैदराबादेन सह विदेशीभाषासंवादकौशलकार्यक्रमाय तथा स्किल इंडिया अन्ताराष्ट्रियकेन्द्रस्य जयपुरे स्थापना कृते नेशनल स्किल डवलपमेंट् कॉरपोरेशनेन सह एमओयू आदानप्रदानं कृतम्। तथा नेशनल एन्टरप्रेन्योर एम्पावरमेंट् ड्राइव अन्तर्गतं अपि विविधसम्झौताः कृताः।

कार्यक्रमात् पूर्वं इंग्लिश् एण्ड् फॉरेन लैंग्वेज् विश्वविद्यालयस्य जर्नल विमोचितम्। कार्यक्रमे मुख्यमंत्री युवाभिः सह संवादं कृतवान्। अस्मिन् अवसरे मुख्यसचिवः वी श्रीनिवासः शिक्षा मन्त्रालये उच्चशिक्षासचिवः डॉ विनीतजोशी शिक्षाविदः बहवः युवानः च उपस्थिताः आसन्। वीसी तथा मायभारतपोर्टल माध्यमेन अपि प्रदेशस्य सर्वे युवानः सम्बद्धाः।

---------------

हिन्दुस्थान समाचार