यूजीसी नेटपरीक्षायां वानिकी विषयाय अमिलत् मान्यता, हिमालयी छात्रेभ्यो मिलिष्यति लाभम्
नैनीतालम्, 01 मईमासः (हि.स.)। विश्वविद्यालयअनुदानआयोगेन (यूजीसी) वानिकीविषयः यूजीसी-नेट् परीक्षायां समावेशितुं निर्णयः कृतः, येन विशेषतः हिमालयीयप्रदेशेषु अध्ययनरताः छात्राः छात्र्यश्च लाभान्विताः भविष्यन्ति, वनसंरक्षणक्षेत्रे अपि नूतनाः अवसराः उ
डॉ. शेर सिंह सामंत।


नैनीतालम्, 01 मईमासः (हि.स.)।

विश्वविद्यालयअनुदानआयोगेन (यूजीसी) वानिकीविषयः यूजीसी-नेट् परीक्षायां समावेशितुं निर्णयः कृतः, येन विशेषतः हिमालयीयप्रदेशेषु अध्ययनरताः छात्राः छात्र्यश्च लाभान्विताः भविष्यन्ति, वनसंरक्षणक्षेत्रे अपि नूतनाः अवसराः उद्घाटिताः भविष्यन्ति।

यूजीसी-सचिवया श्यामा रथ इत्यया निर्गतपत्रानुसारं जून २०२६ मासे आयोज्यमानायां नेट् परीक्षायां वानिकीविषयः समाविष्टः अस्ति, तस्य पाठ्यक्रमश्च आयोगस्य आधिकारिकजालपुटे प्रकाशितः अस्ति। अयं निर्णयः यूजीसी-संघस्य ५९७तमसभायां स्वीकृतः, यस्मिन् कुमाऊँ-विश्वविद्यालयस्य पूर्वछात्रः, नेशनल् अकादेमी-संस्थायाः फैलो तथा एचएफआरआई शिमला संस्थायाः पूर्वनिदेशकः डॉ. शेर सिंह सामन्त इत्यस्य अध्यक्षतायां गठितया अष्टसदस्यीयसमित्या पञ्चसभाः कृत्वा पाठ्यक्रमः निर्मितः।

वानिकीविषयस्य नेट् परीक्षायां समावेशनस्य आवश्यकता दीर्घकालात् अनुभूयमाना आसीत्। कुमाऊँ-विश्वविद्यालय-शिक्षकसंघस्य (कूटा) अध्यक्षः प्रो. ललित तिवारी इत्यनेन उक्तं यत् एषा मागः बहुवारं प्रस्तुता आसीत्।

अस्य निर्णयस्य फलस्वरूपं विशेषतः समग्रे हिमालयप्रदेशे छात्राः छात्र्यश्च लाभं प्राप्स्यन्ति, वनसंरक्षणे अपि महत्त्वपूर्णा सहायता भविष्यति। तेन सह वानिकीविषयः हिमालयीयक्षेत्रस्य सर्वेषु महाविद्यालयेषु अपि प्रारम्भणीयः इति अपेक्षा व्यक्ता, तथा डॉ. सामन्तस्य प्रति कृतज्ञता अपि प्रकटिता।

हिन्दुस्थान समाचार