Enter your Email Address to subscribe to our newsletters

नवदिल्लीनगरम्, ०१ मईमास: (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी शुक्रवासरे मध्यप्रदेशस्य जबलपुर-जनपदे स्थिते बरगी-डैम-स्थले नाव-दुर्घटनायां जनानां मृत्युं प्रति गहनं दुःखं प्रकटितवान्।
प्रधानमन्त्रीः स्वकीय-एक्स-सन्देशे उक्तवान् यत् अस्य दर्दनाक-हादसे मृतकानां परिवाराणां प्रति सः गहनां संवेदनां प्रकटयति, आहतानां शीघ्र-स्वास्थ्यलाभं च कामयते। सः उक्तवान् यत् स्थानीय-प्रशासनं प्रभावितानां सर्वविधं साहाय्यं कुर्वन् अस्ति।
प्रधानमन्त्री राष्ट्रीय-आपदा-राहत-कोषात् (PMNRF) मृतकानां परिजनानां कृते २ लक्ष-रूप्यकाणां, आहतानां कृते ५० सहस्र-रूप्यकाणां आर्थिक-सहाय्यस्य घोषणाम् अपि कृतवान्।
उल्लेखनीयम् अस्ति यत् गुरुवासरे सायं तीव्र-वायु-सह बरगी-डैम-स्थाने पर्यटन-नौका (क्रूज) असन्तुलितं भूत्वा विपरीता। तस्मिन् समये नौकायां ४०-४५ यात्रिणः आसन्। दुर्घटना तटात् प्रायः ३०० मीटर-दूरे अभवत्। शुक्रवासर-प्रभाते यावत् ९ मृतदेहाः प्राप्ताः, २४ जनाः सुरक्षिताः उद्धृताः, तथा च ९ अधिकाः अद्यापि लुप्ताः सन्ति, येषां अन्वेषणं निरन्तरं प्रचलति।
हिन्दुस्थान समाचार / अंशु गुप्ता