Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 01 मईमासः(हि.स)।
केन्द्रीयश्रमरोजगारमन्त्री डॉ मनसुखमाण्डवियः ३ मई दिनाङ्के कर्नाटकस्य डोड्डाबल्लापुरे नवनिर्मितस्य शतशय्यायुक्तस्य कर्मचारीराज्यबीमानिगमस्य (ईएसआईसी) चिकित्सालयस्य उद्घाटनं करिष्यति। तेन सह बेल्लारीनगरे शतशय्यायुक्तस्य अन्यस्य ईएसआईसी चिकित्सालयस्य आभासीरीत्या शिलान्यासः अपि करिष्यते।
श्रमरोजगारमन्त्रालयस्य अनुसारं अस्मिन् अवसरे डॉ माण्डवियः तेभ्यः निर्माणश्रमिकेभ्यः सम्मानं दास्यति ये चिकित्सालयनिर्माणे योगदानं कृतवन्तः। कार्यक्रमे सः ईएसआई लाभार्थिभ्यः नगदरूपेण लाभवितरणम् अपि करिष्यति। कर्नाटकस्य डोड्डाबल्लापुरे स्थितः अयं शतशय्यायुक्तः चिकित्सालयः १,४२,०३७ अधिकान् बीमितश्रमिकान् तेषां परिवारांश्च सेवां दास्यति, येन बेंगलुरुग्राम्य चिक्काबल्लापुर तुमकुरु कोलार जिलेषु प्रायः ५.५० लक्षलाभार्थिनः लाभं प्राप्स्यन्ति। अपि च बेल्लारीचिकित्सालयस्य सम्पन्नतायां प्रायः ६४ सहस्रश्रमिकाणां तेषां परिवाराणां च चिकित्सीयावश्यकताः पूर्यन्ते, येन बेल्लारीमण्डले द्विलक्षाधिकलाभार्थिनः लाभान्विताः भविष्यन्ति।
कर्नाटकस्य बेंगलुरुग्राम्यप्रदेशे डोड्डाबल्लापुरे स्थितः अयं ईएसआईसी चिकित्सालयः शतशय्यायुक्तः बहुविशेषज्ञोपचारयुक्तः द्वितीयस्तरीयचिकित्साकेन्द्रः अस्ति, यः पञ्चएकरभूमौ १०१.१४ कोटिरूप्यकव्यये निर्मितः। अस्मिन् ३२ कर्मचारीनिवासगृहाणि सन्ति, अत्र सामान्यचिकित्सा शल्यचिकित्सा प्रसूतिस्त्रीरोगचिकित्सा बालरोगचिकित्सा अस्थिरोगचिकित्सा आपत्कालीनसेवा इत्यादयः प्रमुखसेवाः उपलब्धाः। सहैव रेडियोलॉजी प्रयोगशाला रक्तसञ्चयकेन्द्र इत्यादयः समग्रनैदानिकसुविधाः अपि सन्ति।
तदतिरिक्तं बेल्लारीनगरे प्रस्तावितः ईएसआईसी चिकित्सालयः ५.२१ एकरभूमौ प्रायः १५० कोटिरूप्यकव्यये विकसितः भविष्यति। अयं चिकित्सालयः ईएसआई योजनायाः अन्तर्गतं बीमितजनानां तेषां परिवाराणां च कृते आधुनिकाः अत्याधुनिकाः च स्वास्थ्यसेवाः प्रदास्यति।
---------------
हिन्दुस्थान समाचार