बुद्ध जयंत्यां नेपालस्य प्रधानमंत्रिणः संदेशः- सर्वासां समस्यानां समाधानं बुद्धस्य ज्ञानेन संभवम्
काठमांडूः, 01 मईमासः (हि.स.)। बुद्धजयन्त्याः अवसरे प्राप्ते नेपालदेशस्य प्रधानमन्त्री बालेन्द्रशाहः शुभाशयप्रदाने अवदत् यत् प्रत्येकयात्रा समस्यासमाधानस्य मार्गं प्रति भवेत्। सामाजिकमाध्यमे प्रकाशिते स्वसन्देशे तेन लिखितम्— “बुद्धेन उक्तम्— ‘दुः
नेपाल के प्रधानमंत्री बालेन्द्र शाह


काठमांडूः, 01 मईमासः (हि.स.)।

बुद्धजयन्त्याः अवसरे प्राप्ते नेपालदेशस्य प्रधानमन्त्री बालेन्द्रशाहः शुभाशयप्रदाने अवदत् यत् प्रत्येकयात्रा समस्यासमाधानस्य मार्गं प्रति भवेत्।

सामाजिकमाध्यमे प्रकाशिते स्वसन्देशे तेन लिखितम्— “बुद्धेन उक्तम्— ‘दुःखम् अस्ति, दुःखस्य कारणम् अस्ति, दुःखस्य निवारणम् अस्ति, दुःखनिवारणस्य मार्गः अपि अस्ति।’ बुद्धेन प्रदर्शितः मार्गः दुःखनिवारणस्य एव मार्गः अस्ति। अन्धकारः वस्तुतः प्रकाशाभावस्य नाम अस्ति। यदा प्रकाशस्य किरणा प्रविशति, तदा अन्धकारः स्वयमेव नश्यति।”

तेन अग्रे अपि लिखितम्— “अस्माकं यात्रा अपि तस्मिन् ज्ञानरूपप्रकाशस्य अन्वेषणे भवेत्, समस्यासमाधानमार्गे एव भवेत्। शान्तेः महान् सर्वकालिकः प्रवर्तकः बुद्धः, तस्य जयन्त्याः अवसरः प्राप्ते अहं विश्वशान्तेः कामनाम् करोमि। बुद्धजन्मना धन्या अस्माकं नेपालभूमिः सदा अहिंसाशान्त्योः पक्षे स्थितवती अस्ति।”

शुभाशयप्रदाने शाहेन एतत् अपि निर्दिष्टम्— “सत्यक्रान्तिः ‘क’ इत्यस्मात् न आरभ्यते, अपि तु ‘ज्ञ’ इत्यस्मात् आरभ्यते, सः ‘ज्ञ’ ज्ञानम् एव अस्ति।”

---------------

हिन्दुस्थान समाचार