Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 01 मईमासः (हि.स.)।
प्रधानमन्त्रिणा नरेन्द्र मोदिना बुद्ध पूर्णिमा-अवसरे अद्य देशवासिनः प्रति शुभाशंसाः प्रदत्ताः, शान्तेः, करुणायाः, सद्भावनायाः च मार्गे चलितुं सन्देशः अपि दत्तः। तेन सर्वेभ्यः गौतम बुद्ध-भगवतः जीवनमूल्यानि स्वीकर्तुं संकल्पस्य पुनरुच्चारणाय आह्वानं कृतम्।
प्रधानमन्त्री ‘एक्स’ इत्यत्र स्वसन्देशे उक्तवान्— “सर्वेभ्यः देशवासिभ्यः बुद्धपूर्णिमाया असीमाः शुभाशंसाः। शान्तेः करुणायाः सद्भावनायाश्च मार्गे चलितुं प्रेरणां ददाति अस्य पावनस्य अवसरस्य निमित्तं वयं बुद्धस्य जीवनमूल्यानि स्वीकर्तुं पुनः संकल्पं कुर्मः।”
तेन अस्मिन् अवसरे संस्कृतसुभाषितमपि सहकृतम्—
“नान्तर्बहिश्च लोकेषु त्वात्मानं दृष्टवान् क्वचित्।
आष्टाङ्गिकेन मार्गेण परमां शान्तिमाययौ॥”
अस्य सुभाषितस्य भावार्थः अस्ति यत् मनुष्येण एतत् अवगन्तव्यं यत् न अन्तः न च बहिः काचित् स्थिरा आत्मा वा सत्ता अस्ति। यदा मनुष्यः बुद्धेन निर्दिष्टं आष्टाङ्गिकमार्गं—सम्यग्दृष्टिं, सम्यक्सङ्कल्पं, सम्यक्चरित्रं च—अनुसरति, तदा सः सर्वेभ्यः दुःखेभ्यः मुक्तः सन् परमां शान्तिं प्राप्नोति।
प्रधानमन्त्री आशां व्यक्तवान् यत् बुद्धस्य विचाराः समाजे सुखस्य ऐक्यभावस्य च अधिकं सुदृढीकरणं करिष्यन्ति।
---------------
हिन्दुस्थान समाचार