मध्यप्रदेशस्य जबलपुरस्य बरगी क्रूजघटनायां प्रधानमंत्री प्रकटितं दुःखं, रक्षणराशेः घोषणा कृता
- मृतकानां परिजनेभ्यो 2-2 लक्षं रुप्यकाणि आहतेभ्यः दास्यन्ते 50-50 सहस्रं रुप्यकाणां सहायताभोपालम्, 01 मईमासः (हि.स.) । प्रधानमन्त्री नरेन्द्रमोदी मध्यप्रदेशस्य जबलपुरजिलान्तर्गतस्य बरगीप्रदेशे नर्मदानद्यां घटितस्य नौकापतनदुःखदघटनायां गाढं शोकं व्
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


मुख्यमंत्री डॉ. मोहन यादव ने जबलपुर के बरगी डैम हादसे को लेकर हालात का लिया जायजा


उप मुख्यमंत्री जगदीश देवड़ा ने जबलपुर के बरगी डैम हादसे का किया स्थल निरीक्षण


उप मुख्यमंत्री जगदीश देवड़ा ने जबलपुर के बरगी डैम हादसे का किया स्थल निरीक्षण


- मृतकानां परिजनेभ्यो 2-2 लक्षं रुप्यकाणि आहतेभ्यः दास्यन्ते 50-50 सहस्रं रुप्यकाणां सहायताभोपालम्, 01 मईमासः (हि.स.) । प्रधानमन्त्री नरेन्द्रमोदी मध्यप्रदेशस्य जबलपुरजिलान्तर्गतस्य बरगीप्रदेशे नर्मदानद्यां घटितस्य नौकापतनदुःखदघटनायां गाढं शोकं व्यक्तवान्। सः एतां दुर्घटनां अत्यन्तं पीडाजनकां कथयन् मृतकानां परिवारजनानां प्रति संवेदनां प्रकटितवान् तथा आहतानां शीघ्रस्वास्थ्यलाभस्य कामनाम् अकरोत्।

प्रधानमन्त्री नरेन्द्रमोदी ‘एक्स’ इति सामाजिकमाध्यमे एतस्मिन् दुःखदघटने स्वजनहानिं प्राप्तानां प्रति शोकसंवेदनाः व्यक्तवान्। तेन उक्तं यत् सर्वकारः प्रशासनं च प्रभावितजनानां सर्वप्रकारेण सहाय्ये निरतम् अस्ति। प्रधानमन्त्री राष्ट्रियरक्षणकोषात् अपि सः आर्थिकसहायतायाः घोषणाम् अकरोत्। तेन उक्तं यत् अस्मिन् दुर्घटने प्रत्येकस्य मृतकस्य परिवाराय द्वौ लक्षरूप्यकाणि अनुग्रहरूपेण प्रदास्यन्ते, तथा आहतजनानां कृते पञ्चाशत्सहस्ररूप्यकाणि आर्थिकसहायता रूपेण दास्यन्ते।

मुख्यमन्त्री डॉ मोहनयादवः शुक्रवासरे प्रायः पञ्चदशमिनिटपर्यन्तं घटनास्थलस्य निरीक्षणं कृतवान्। तेन सह लोकनिर्माणमन्त्री राकेशसिंह पर्यटनमन्त्री धर्मेन्द्रसिंहलोधी पुलिसप्रशासनस्य अधिकारीणः च उपस्थिताः आसन्। मुख्यमन्त्री घटनास्थले उपस्थितैः एनडीआरएफ सैनिकैः सह अपि संवादं कृतवान्, ये गतसन्ध्यादारभ्य निरन्तरं उद्धारकार्ये संलग्नाः सन्ति।

उपमुख्यमन्त्री जगदीशदेवडा अपि जबलपुरनगरं गत्वा बरगीबन्धे घटितस्य अस्य दुःखददुर्घटनास्थलस्य निरीक्षणं कृतवान्। तेन तत्र सञ्चालितस्य राहतउद्धारकार्यस्य अवलोकनं कृत्वा अधिकारिभ्यः आवश्यकनिर्देशाः दत्ताः। सः अपि दुर्घटनायाः विषये गाढं शोकं व्यक्तवान् तथा अवदत् यत् एषा घटना अत्यन्तं दुःखदा अस्ति, प्रभावितपरिवाराणां दुःखस्य अनुमानं कर्तुमपि कठिनम्। सः उक्तवान् यत् राज्यसर्वकारः पूर्णसंवेदनशीलतया पीडितानां सह स्थितः अस्ति तथा प्रशासनं प्रति राहतकार्यस्य तीव्रीकरणं प्रभावितपरिवाराणां च सर्वतोमुखसहाय्यप्रदानं कर्तुम् आदेशितवान्।

उल्लेखनीयम् यत् मध्यप्रदेशस्य जबलपुरे स्थिते बरगीबन्धे गुरुवासरे सायंकाले प्रायः पञ्चवादने पर्यटनविभागस्य एकः जलयानः आकस्मिकया तीव्रवातेन निमग्नः अभवत्। अस्मिन् दुर्घटने अद्यपर्यन्तं नव शवानि प्राप्तानि सन्ति, एकोनत्रिंशत् जनाः सुरक्षिततया उद्धृताः। अपरं नवाधिकाः जनाः अद्यापि लुप्ताः सन्ति, तेषां अन्वेषणे उद्धारदलस्य समूहाः निरन्तरं प्रवृत्ताः सन्ति।

---------------

हिन्दुस्थान समाचार