राष्ट्रपतिः, उपराष्ट्रपतिः च केन्द्रीय-मन्त्रिणश्च महाराष्ट्र-गुजरात-दिवसस्य शुभाशयाः प्रदत्तवन्तः
नवदिल्लीनगरम्, ०१ मईमास: (हि.स.)। महाराष्ट्र-गुजरातयोः स्थापना-दिवसस्य अवसरम् अवलम्ब्य राष्ट्रपतिः द्रौपदी-मुर्मुः, उपराष्ट्रपतिः सी.पी. राधाकृष्णनः, लोकसभाध्यक्षः ओम्-बिरला तथा केन्द्रीय-मन्त्रिणः अन्ये च शीर्ष-नेतारः उभयोः राज्ययोः नागरिकेभ्यः शु
महाराष्ट्र और गुजरात प्रतिकात्मक चित्र।


नवदिल्लीनगरम्, ०१ मईमास: (हि.स.)। महाराष्ट्र-गुजरातयोः स्थापना-दिवसस्य अवसरम् अवलम्ब्य राष्ट्रपतिः द्रौपदी-मुर्मुः, उपराष्ट्रपतिः सी.पी. राधाकृष्णनः, लोकसभाध्यक्षः ओम्-बिरला तथा केन्द्रीय-मन्त्रिणः अन्ये च शीर्ष-नेतारः उभयोः राज्ययोः नागरिकेभ्यः शुभकामनाः प्रदत्तवन्तः, तयोः ऐतिहासिक-सांस्कृतिक-आर्थिक-योगदानस्य च प्रशंसां कृतवन्तः।

राष्ट्रपतिः द्रौपदी-मुर्मुः स्वकीय-एक्स-सन्देशे महाराष्ट्र-जनान् प्रति शुभकामनाः दत्त्वा अवदत् यत् एषा भूमिः छत्रपति-शिवाजी-महाराजस्य वीरतायाः राष्ट्रभक्तेः च प्रेरणां ददाति। सा महात्मा-ज्योतिबा-फुले, सावित्रीबाई-फुले, बाल-गङ्गाधर-तिलकः, गोपालकृष्ण-गोखले, डॉ.भीमराव-आम्बेडकरः इत्यादीनां महान्-नेतॄणां स्मरणं कृत्वा उक्तवती यत् महाराष्ट्रः देशस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहति।

राष्ट्रपतिः गुजरात-स्थापना-दिवसे उक्तवती यत् एषा भूमिः महात्मा-गान्धी, सरदार-वल्लभभाई-पटेलः, स्वामी-दयानन्द-सरस्वती इत्यादीनां जन्मभूमिः अस्ति, यया राष्ट्रनिर्माणे महत्त्वपूर्णं योगदानं कृतम्।

उपराष्ट्रपतिः सी.पी.राधाकृष्णन् गुजरातं उद्यम-नवाचारयोः केन्द्रम् इति वर्णयन् अवदत् यत् राज्येन भारतस्य आर्थिक-शक्तिः सुदृढा कृता। सः च महाराष्ट्रं सांस्कृतिक-धरोहरस्य प्रगतिशील-चिन्तनस्य च प्रतीकम् इति वर्णितवान्।

लोकसभाध्यक्षः ओम्-बिरला गुजरातस्य आर्थिक-राजनीतिक-भूमिकां प्रशंस्य उक्तवान् यत् एतत् राज्यं स्वतन्त्रता-सङ्ग्रामात् आरभ्य आधुनिक-भारतपर्यन्तं महत्त्वपूर्णं योगदानं दत्तवान्।

केन्द्रीय-गृहमन्त्री अमित-शाहः महाराष्ट्रस्य ऐतिहासिक-धरोहरां सामाजिक-सुधार-परम्परां च स्मरन् राज्यवासिनां कल्याणं कामयितवान्। सः गुजरातस्य विषये उक्तवान् यत् राज्येन राष्ट्रनिर्माणे अत्यन्तं महत्त्वपूर्णा भूमिका निर्वहिता।

रक्षा-मन्त्री राजनाथ- सिंहः अपि उभयोः राज्ययोः शुभकामनाः दत्त्वा तयोः विकास-यात्रां नवाचारं च प्रशंसितवान्।

कांग्रेस-अध्यक्षः मल्लिकार्जुन-खरगे गुजरातस्य उद्यमशीलतां ऐतिहासिक-धरोहरं च राष्ट्राय प्रेरणादायिनीं उक्तवान्।लोकसभायाः विपक्ष-नेता राहुल-गान्धी महाराष्ट्र-गुजरातयोः जनान् प्रति शुभकामनाः दत्त्वा उक्तवान् यत् एतयोः राज्ययोः योगदानं भारतस्य प्रगत्यै अत्यन्तं महत्त्वपूर्णम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता