Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 01 मईमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मूः, उपराष्ट्रपतिः सीपी राधाकृष्णन, लोकसभाध्यक्षः ओम बिरला, गृहमन्त्री अमित शाह इत्यादयः बहवः प्रमुखनेतारः बुद्ध पूर्णिमा-अवसरे शुभाशंसाः प्रदत्तवन्तः।
राष्ट्रपतिना ‘एक्स’ इत्यत्र लिखितम् यत्— बुद्धपूर्णिमाया अवसरस्य निमित्तं सर्वेभ्यः देशवासिभ्यः तथा च समग्रे विश्वे गौतम बुद्ध-भगवतः अनुयायिभ्यः अभिनन्दनानि शुभाशंसाश्च।
उपराष्ट्रपतिना उक्तं यत्— बुद्धस्य जीवनं शिक्षाश्च करुणायाः, अहिंसायाः, ज्ञानस्य च मार्गं प्रदर्शयन्ति। तस्य कालातीतः सन्देशः—शान्तिः, सद्भावः, निःस्वार्थसेवा च—अद्यापि विश्वे अत्यन्तं प्रासंगिकः अस्ति। अयं पवित्रः दिवसः अस्मान् दयालुतां स्वीकर्तुं, सद्भावं वर्धयितुं, सर्वेषां कल्याणाय कार्यं कर्तुं च प्रेरयतु।
लोकसभाध्यक्षः ओम बिरलः उक्तवान् यत्— वैशाखपूर्णिमा केवलं उत्सवः न, किन्तु आत्मचिन्तनस्य, जागरूकतायाः, अध्यात्ममानवतामार्गे निरन्तरगमनस्य च संकल्पः अस्ति। बुद्धस्य जीवनं त्यागस्य, ज्ञानस्य, करुणायाः च अद्वितीया यात्रा आसीत्, या मानवजीवनस्य गूढप्रश्नानां सरलव्यावहारिकसमाधानं दत्तवती। तेन अहिंसा, सहिष्णुता, समभावः च जीवनस्य आधारः इति प्रतिपादितम्। तस्य दर्शनं अस्मान् प्रेरयति यत् वयं अज्ञानं, क्रोधं, अहंकारं च त्यक्त्वा सत्यस्य, मैत्र्याः, करुणायाः च मार्गे चरामः।
गृहमन्त्री अमितशाहः उक्तवान् यत्— बुद्धस्य जीवनं अस्मान् सत्यस्य, अहिंसायाः, करुणायाः च मार्गे गत्वा मानवतायाः कल्याणाय निरन्तरं प्रयत्नं कर्तुं प्रेरयति। तस्य अमूल्यं ज्ञानं युगयुगान्तरं मानवसभ्यतां प्रकाशयिष्यति।
केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिन गडकरी उक्तवान् यत्— अहिंसाकरुणायाः मूर्तिरूपः बुद्धः समग्रं विश्वं प्रति शान्तेः सामाजिकसमरसतायाः च सन्देशं दत्तवान्। तस्य जीवनदर्शनं सदा प्रेरणां दास्यति।
रक्षामन्त्री राजनाथ सिंह उक्तवान् यत्— महात्मनः बुद्धस्य जीवनं विचाराश्च सम्पूर्णमानवजातिं शान्तेः, करुणायाः, आत्मबोधस्य च प्रेरणां ददति। तस्य सन्देशः अद्यापि अतीव प्रासंगिकः अस्ति, भविष्यत्संततीनामपि मार्गदर्शकः भविष्यति।
कृषिमन्त्री शिवराज सिंह चौहान उक्तवान् यत्— बुद्धस्य शिक्षाः पुण्यविचाराश्च सर्वदा अस्मान् मानवसेवायै कल्याणाय च प्रेरयिष्यन्ति। सर्वे तस्य उपदेशान् आत्मसात् कृत्वा श्रेष्ठसमाजनिर्माणे योगदानं ददतु।
केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेंद्र सिंह शेखावत लिखितवान् यत्— बुद्धपूर्णिमाया पावनावसरे सर्वेभ्यः हार्दिकाः शुभाशंसाः। बुद्धेन प्रतिपादिताः सत्यं, अहिंसा, समर्पणं, शान्तिपूर्णसहअस्तित्वं च मानवजातये अनुपमं उपहारम्।
संसदीयकार्येमन्त्री किरेन रिजिजू उक्तवान् यत् करुणाशान्त्यहिंसामूर्तिः बुद्धः अस्मान् लोभमोहभोगविलासेभ्यः दूरं गत्वा सत्यसंयमजागरूकतामार्गं स्वीकर्तुं प्रेरयति। तेन प्रतिपादिताः आर्यसत्याः अष्टाङ्गिकमार्गश्च मानवजीवनं संतुलनं नैतिकतां च आन्तरिकशान्तिं प्रति नयन्ति।
काङ्ग्रेसपक्षस्य राष्ट्रियाध्यक्षः मल्लिकार्जुन खरगे उक्तवान् यत्— बुद्धस्य जीवनं शिक्षाश्च कालातीतं, शाश्वतं, सार्वभौमिकं च ज्ञानं वहतः। तस्य सत्यकरुणाहिंसासावधानतासमानतासन्देशः अस्माकं सभ्यतां आकारितवान्, अद्यापि संघर्षपूर्णे काले मानवतायाः मार्गदर्शनं करोति। तस्य मार्गः स्मारयति यत् आन्तरिकशान्तिः न्यायपूर्णसामंजस्यपूर्णविश्वस्य आधारः अस्ति।
लोकसभायां प्रतिपक्षनेता राहुल गांधी उक्तवान् यत्— गौतम बुद्ध-भगवतः जीवनदर्शनं विचाराश्च सम्पूर्णमानवजातये शिक्षारूपाः सन्ति—अहिंसा, करुणा, सत्यं, सामाजिकसमरसता, नैतिकता च।
------------
हिन्दुस्थान समाचार