Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 01 मईमासः (हि.स.)।
केन्द्रीयकृषिकिसानकल्याणग्रामीणविकासमन्त्री शिवराज सिंह चौहान अद्य ओडिशा-राज्यस्य यात्रां करिष्यति। स्वीययात्राकाले सः रायगड़ा-जिले ग्रामीणविकासमन्त्रालयेन आयोजिते महत्त्वपूर्णे कार्यक्रमे सहभागी भविष्यति।
अस्मिन् अवसरे केन्द्रीयमन्त्री प्रधानमंत्री ग्राम सड़क योजना (पीएमजीएसवाई)-इत्यस्य चतुर्थचरणस्य शुभारम्भं करिष्यति। अस्याः योजनायाः अन्तर्गतं राज्ये १,६९८.०४ कोटिरूप्यकव्ययेन कुलं १,७०१.८४ किलोमीटर-दीर्घाः ८२७ मार्गपरियोजनाः कार्यान्विताः भविष्यन्ति। एताभिः परियोजनाभिः ८९८ बस्तयः प्रथमवारं स्थायिसडकसम्पर्कं प्राप्स्यन्ति।
अस्मिन् कार्यक्रमे मोहन चरण माझी अपि उपस्थितः भविष्यति। कार्यक्रमः रायगडस्य बारीझोला-स्थिते आईसीएआर-मैदाने आयोजितः भविष्यति, यः राज्यस्य दूरस्थग्रामीणक्षेत्राणां विकासाय अत्यन्तं महत्त्वपूर्णः मन्यते।
एतेषां नवानां मार्गाणां निर्माणेन विद्यालयानां, चिकित्सालयानां, बाजाराणां च अन्येषां आवश्यकसेवानां प्रति गमनं सुलभं भविष्यति। सहैव स्थानीयव्यापारः, रोजगारावसराः, सामाजिकआर्थिकक्रियाशीलताश्च अपि प्रवर्धिष्यन्ते इति अपेक्षा अस्ति।
कार्यक्रमकाले केन्द्रीयमन्त्री मुख्यमन्त्रिणे पीएमजीएसवाई-अनुमोदनपत्रं प्रदास्यति। ततः उभौ नेतारौ संयुक्तरूपेण विभिन्नपरियोजनानां उद्घाटनं शिलान्यासं च करिष्यतः। अस्मिन् अवसरे लाभार्थिनः अपि सम्मानिताः भविष्यन्ति।
अस्मिन् कार्यक्रमे राज्यस्य ग्रामीणविकासपञ्चायतीराजपेयजलमन्त्री अन्ये जनप्रतिनिधयः केन्द्रराज्यसरकारयोः वरिष्ठाधिकारिणश्च सहभागिनो भविष्यन्ति। प्रधानमन्त्रिणःनरेन्द्र मोदिनः मार्गदर्शनेन एषा पहल समावेशीविकासस्य प्रति केन्द्रराज्यसरकारयोः प्रतिबद्धतां दर्शयति।
उल्लेखनीयं यत् पीएमजीएसवाई-अन्तर्गतं ओडिशा-राज्येन पूर्वमेव उल्लेखनीया प्रगति प्राप्ता अस्ति। अधुना पर्यन्तं राज्ये १७,९६३ मार्गाः ७०७ सेतवः च अनुमोदिताः, तेषु १७,७६० मार्गाः ६५८ सेतवः च निर्मिताः सन्ति। अयं नूतनः चरणः राज्यस्य ग्रामीणविकासं अधिकं सुदृढीकर्तुं महत्त्वपूर्णः पादः मन्यते।
---------------
हिन्दुस्थान समाचार