Enter your Email Address to subscribe to our newsletters

मेक्सिको-सिटी, ०१ मईमासः (हि.स.)। मेक्सिको-देशस्य अनुभवी गोलकीपर-गिलर्मो-ओचोआ घोषणां कृतवान् यत् सः फीफा-विश्वकप् २०२६ अनन्तरं राष्ट्रीय-दलात् संन्यासं ग्रहीष्यति। तेन एतदपि सूचितं यत् एषा प्रतियोगिता तस्य व्यावसायिक-जीवनस्य अपि अन्तिमः चरणः भवितुम् अर्हति।
विश्वकप्-समये एकचत्वारिंशद्वर्षीयः भविष्यन् ओचोआ अद्यावधि पञ्च विश्वकप्-प्रतियोगिताः क्रीडितवान् अस्ति, षष्ठ-विश्वकप-इत्यस्य कृतेऽपि तस्य चयनस्य सम्भावना व्यक्ता भवति, यद्यपि आधिकारिक-निश्चयः अद्यापि न कृतः।
साइप्रस-देशस्य एईएल-लिमासोल-क्लब-इत्यस्य कृते क्रीडन् ओचोआ एकस्मिन् साक्षात्कारे उक्तवान् यत् राष्ट्रीय-दलात् तस्य विदायः निश्चितः अस्ति, पूर्ण-संन्यासः अपि सम्भाव्यः अस्ति।ओचोआ उक्तवान्— “संन्यासं ग्रहीतुं नूनं कठिनं भवति, किन्तु मम विषये एतत् अतीव दुष्करं न भविष्यति, यतः मया दीर्घकालं यावत् अस्याः क्रीडायाः आनन्दः अनुभूतः। कदाचित् कालः आगच्छति यदा मनः शरीरं च वदतः यत् भवता स्वस्य सर्वश्रेष्ठं दत्तम्, ततः सन्तोषेन सह विदायः स्वीक्रियते— ममापि तथैव भविष्यति।”
ओचोआ तेषु चतुर्षु मेक्सिको-देशीय-क्रीडकानां मध्ये अस्ति ये पञ्च विश्वकप्-प्रतियोगिताः क्रीडितवन्तः। अस्मिन् सूची अन्तोनियो-कार्बाजालः, राफेल-मार्केजः तथा आंद्रेस-गुआर्डाडोऽपि सन्ति।
यदि सः २०२६ विश्वकपे क्रीडति, तर्हि क्रिस्टियानो-रोनाल्डो तथा लियोनेल-मेसी इव षट्-विश्वकप्-प्रतियोगिताः क्रीडितवन्तः विरल-क्रीडकानां मध्ये सम्मिलितः भवितुं शक्नोति।
नवीन-प्रतिवेदनानुसारं ओचोआ युवा-गोलकीपर-इत्यस्य राउल “टाला” रेंगलस्य विकल्प-रूपेण दृष्टः अस्ति। अपरतः, मेक्सिको-देशस्य प्रशिक्षकः जेवियर-एग्विरे दलस्य अन्तर्गतं विदेश-स्पर्धासु क्रीडकाय एकस्मै गोलकीपर-इत्येतस्मै स्थानं रिक्तं कृतवान्, यस्मिन् ओचोआ प्रमुखः प्रार्थी मन्यते।
फीफा-विश्वकप् २०२६ इत्यस्य आयोजनं मेक्सिको, संयुक्त-राज्य-अमेरिका तथा कनाडा—एतेषां संयुक्त-आतिथ्येन भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता