फीफा-विश्वकप-स्पर्धा २०२६ : ईरान-देशस्य सहभागिता पुष्टा, अमेरिकायाम् एव स्वकीय-स्पर्धाः क्रीडिष्यति
वैंकूवरनगरम्, ०१ मईमासः (हि.स.)। विश्व-पादकन्दुकस्य नियामक-संस्था फीफा इत्यस्य अध्यक्षः जियानी इन्फान्टिनो गुरुवासरे स्पष्टं कृतवान् यत् ईरान-पादकन्दुक-दलम् फीफा-विश्वकप-स्पर्धा २०२६ इत्यस्यां निश्चयेन भागं ग्रहीष्यति तथा च स्वीयान् प्रतियोगान् अमे
फीफा कांग्रेस में बोलते जियानी इन्फेंटिनो


वैंकूवरनगरम्, ०१ मईमासः (हि.स.)। विश्व-पादकन्दुकस्य नियामक-संस्था फीफा इत्यस्य अध्यक्षः जियानी इन्फान्टिनो गुरुवासरे स्पष्टं कृतवान् यत् ईरान-पादकन्दुक-दलम् फीफा-विश्वकप-स्पर्धा २०२६ इत्यस्यां निश्चयेन भागं ग्रहीष्यति तथा च स्वीयान् प्रतियोगान् अमेरिकायाम् एव क्रीडिष्यति। फीफा-अध्यक्षः वैंकूवर-नगरे आयोजितायां वैश्विक-पादकन्दुक-संघस्य कांग्रेसस्य अवसरे एतां घोषणां कृतवान्।

इन्फान्टिनो स्वभाषणस्य प्रारम्भे उक्तवान्— “अहं प्रारम्भे एव एतत् पुष्टिं कर्तुम् इच्छामि यत् ईरान-देशः निश्चितरूपेण फीफा-विश्वकप २०२६ इत्यस्मिन् भागं ग्रहीष्यति तथा च स्वीयान् प्रतियोगान् संयुक्तराज्य-अमेरिकायाम् एव क्रीडिष्यति।”

४८-दलात्मकी बृहत्-प्रतियोगिता

फीफा-विश्वकप २०२६ कनाडा, संयुक्तराज्य-अमेरिका तथा मेक्सिको इत्येतैः त्रिभिः देशैः संयुक्त-आतिथ्येन ११ जूनतः १९ जुलाईपर्यन्तं आयोज्यते। अस्यां स्पर्धायां ४८ दलानि भागं ग्रहीष्यन्ति, यस्मात् क्रीडकानां तथा अधिकारिणां बहुदेशीय-यात्रा अनिवार्या भविष्यति। अतः वीजा-सम्बन्धिताः कूटनीतिक-समस्याः अपि सम्भाव्यन्ते।

ईरानस्य सतत-योग्यता

ईरान-देशः एशियाई-योग्यता-चरणस्य तृतीय-स्तरे ग्रुप-ए मध्ये शीर्षस्थानं प्राप्य सततं चतुर्थवारं विश्वकपाय स्थानं अर्जितवान्। तथापि ईरान-पादकन्दुक-संघस्य अध्यक्षः मेहदी-ताजः अमेरिका-ईजरायल-देशयोः मध्ये विद्यमान-चिन्तापूर्ण-स्थितिं दृष्ट्वा चिन्तां प्रकटितवान्।

ग्रुप-जी-मध्ये कठिन-स्पर्धाईरान-देशः ग्रुप-जी-मध्ये बेल्जियम-मिस्र-न्यूजीलैंड-इत्येतैः सह स्थापितः अस्ति। तस्य प्रतियोगिताः लॉस एन्जेलिस् तथा सिएटल्-नगरेषु आयोजिताः भविष्यन्ति।

यदि अमेरिका तथा ईरान-देशौ स्व-स्व-समूहे द्वितीय-स्थानं प्राप्नुतः, तर्हि उभयोः मध्ये ३ जुलाई-दिने डलास्-नगरे नॉकआउट-प्रतियोगिता सम्भवति।

वैकल्पिक-स्थल-प्रस्तावः अस्वीकृतः

ईरान-देशेन अमेरिका-भूमौ प्रतियोगितायाः विकल्प-स्थलस्य याचना कृता आसीत्, किन्तु फीफा-संस्थया सा अस्वीकृता तथा च निर्धारित-कार्यक्रमे परिवर्तनं न भविष्यति इति स्पष्टीकृतम्।

अस्मिन् एव समये अमेरिका-विदेशमन्त्री मार्को रुबियो इत्यनेन उक्तं यत् ईरानी-क्रीडकानां विश्वकप-मध्ये भागग्रहणाय अनुमतिः दास्यते, किन्तु ये व्यक्तयः ईरानस्य इस्लामिक-रिवोल्यूशनरी-गार्ड्-कॉर्प्स् (आईआरजीसी) इत्यनेन सम्बद्धाः सन्ति, तेषां प्रवेशः न अनुमन्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता