Enter your Email Address to subscribe to our newsletters

-मुख्यमंत्रिणो योगिनो हस्ताभ्यां सम्मानं प्राप्य अभिलाषा अवदत्- चिकित्सिका भवितुमिच्छामि'
-भावुकः जातो मुन्नालालोऽवदत् यदस्माकम् उत्तमः सर्वकारःएतावता अस्मभ्यन्न लब्धः
लखनऊ 01 मईमासः(हि.स.)।
उत्तरप्रदेशस्य राजधानी लखनऊनगरस्य इन्दिरागान्धीप्रतिष्ठाने १ मई दिनाङ्के आयोजितः “श्रमवीरगौरवसमारोहः २०२६” इति कार्यक्रमः प्रदेशस्य श्रमिकानां तेषां परिवाराणां च कृते ऐतिहासिकावसरः अभवत्। अस्मिन् कार्यक्रमे मुख्यमन्त्री योगी आदित्यनाथः उत्कृष्टकार्याय पञ्च श्रमिकान् तथा अटलआवासीयविद्यालयस्य दशमकक्षायाः मेधाविनः छात्रान् छात्राश्च सम्मानितवान्। एतेभ्यः प्रमाणपत्रैः सह टॅब्लेट् उपकरणानि अपि प्रदत्तानि। मुख्यमन्त्रिणा सम्मानं प्राप्य मुन्नालालः भावुकः सन् अवदत् यत् वयं इच्छामः यत् २०२७ वर्षे पुनः योगीसरकारः स्थाप्येत, यतः एतादृशी उत्तमा सरकारा अस्माभिः पूर्वं न दृष्टा।
समारोहे मुख्यमन्त्री योगी आदित्यनाथः विविधयोजनानां शिलान्यासं लोकार्पणं च कृतवान्। सः स्पष्टतया उक्तवान् यत् राज्यसरकारः श्रमिकानां जीवनस्य सकारात्मकपरिवर्तनाय निरन्तरं कार्यं करोति। कार्यक्रमे चयनिताः पञ्च श्रमिकाः प्रमाणपत्रैः टूलकिट् उपकरणैः च सम्मानिताः। मुख्यमन्त्रिणा सम्मानं प्राप्य तेषां मुखानि आनन्देन प्रफुल्लितानि अभवन्। सीतापुरस्य मुन्नालालः अवदत् यत् पूर्वं बहवः कष्टाः आसन्, अन्धकारे वयं वसामः, मृत्तिकातैलदीपेन कार्यं कुर्मः स्म। योगी आदित्यनाथस्य मुख्यमन्त्रित्वात् अनन्तरं अस्माकं गृहे विद्युत्सुविधा प्राप्ता। आवासः तथा गॅससिलिण्डरस्य संयोजनं अपि प्राप्तम्। होली दिवाली इत्ययोः उत्सवयोः अपि निःशुल्कं गॅससिलिण्डरं लभ्यते।
बरेलीनगरस्य निवासी आकाशः अपि मुख्यमन्त्रिणा सम्मानितः। सः ओमैक्समेट्रोसिटी कल्लीपश्चिम रायबरेलीमार्गे लखनऊनगरस्य मिस्त्रिणः साहायकरूपेण कार्यं करोति। आकाशः अवदत् यत् अधुना तस्मै समये एव वेतनं लभ्यते, येन परिवारस्य पालनपोषणं सम्यक् भवति तथा आर्थिकस्थितिः अपि सुधृता अभवत्।
लखनऊनगरस्य श्रमिके स्त्रियौ प्यारी सरस्वती च अपि मुख्यमन्त्रिणः प्रति कृतज्ञतां व्यक्तवन्त्यौ। ताभ्याम् उक्तं यत् अधुना ताभ्यां कार्यसहितं सर्वाः आवश्यकसुविधाः समये वेतनं च लभ्यते, येन जीवनं पूर्वात् अधिकं उत्तमं जातम्।
समारोहे अटलआवासीयविद्यालयस्य दशमकक्षायाः दश मेधाविनः छात्राः छात्राश्च सम्मानिताः। ते मुख्यमन्त्रिणः हस्ताभ्यां सम्मानं प्राप्य गौरवं अनुभूतवन्तः। छात्रा अभिलाषा उक्तवती यत् मुख्यमन्त्रिणः हस्तात् सम्मानं प्राप्य अहं अतीव हृष्टा अस्मि। अस्माकं विद्यालये अध्ययनस्तरः अतीव उत्तमः अस्ति तथा सर्वाः आवश्यकसुविधाः उपलब्धाः सन्ति। अद्य प्राप्तः अयं सम्मानः अस्माकं कृते गौरवस्य विषयः अस्ति। अहं भविष्ये वैद्यः भवितुम् इच्छामि। मुख्यमन्त्रिणे मम हार्दिकं धन्यवादम्।
अटलआवासीयविद्यालय आग्रस्य छात्रः गणेशकुमारः अपि अवदत् यत् सः कदापि न चिन्तितवान् यत् मुख्यमन्त्रिणः हस्तेन सम्मानं प्राप्स्यति। अद्य एतत् सम्मानं प्राप्य सः अत्यन्तं गर्वितः अस्ति। अस्माकं विद्यालये अध्ययनं क्रीडा स्मार्टकक्षाः इत्यादयः सर्वाः राष्ट्रियस्तरस्य सुविधाः सन्ति। अहं भविष्ये आईपीएस अधिकारी भवितुम् इच्छामि।
अटलआवासीयविद्यालय प्रयागराजस्य प्राचार्यः डॉ गोपालकान्तमिश्रः अवदत् यत् एषः सम्मानः न केवलं शिक्षकाणां उत्साहं वर्धयति अपि तु छात्रान् अपि उत्तमप्रदर्शनाय प्रेरयति। तेन अपि उक्तं यत् श्रमिकपरिवाराणां बालकेषु परिश्रमस्य अद्भुता क्षमता अस्ति, एषा एव एतेषां विद्यालयानां महती शक्तिः।
हिन्दुस्थान समाचार