सर्वकारीय-महाविद्यालयेषु स्नातक-प्रथम-सत्रस्य प्रवेश-प्रक्रिया आरब्धा
जयपुर-नगरम्, ०१ मईमासः (हि.स.)। महाविद्यालय-शिक्षा-आयुक्तालयेन शैक्षणिक-सत्रे २०२६-२७ कृते प्रदेशस्य सर्वेषु सर्वकारीय-महाविद्यालयेषु स्नातक-प्रथम-सत्रस्य प्रवेश-प्रक्रियायाः विस्तृतम् अन्तर्जाल-कार्यक्रमं प्रकाशितम्। अस्यान्तर्गतं प्रदेशस्य सर्वेष
फाइल


जयपुर-नगरम्, ०१ मईमासः (हि.स.)। महाविद्यालय-शिक्षा-आयुक्तालयेन शैक्षणिक-सत्रे २०२६-२७ कृते प्रदेशस्य सर्वेषु सर्वकारीय-महाविद्यालयेषु स्नातक-प्रथम-सत्रस्य प्रवेश-प्रक्रियायाः विस्तृतम् अन्तर्जाल-कार्यक्रमं प्रकाशितम्। अस्यान्तर्गतं प्रदेशस्य सर्वेषु सर्वकारीय-महाविद्यालयेषु प्रवेशम् इच्छन्तः विद्यार्थिनः १ मई २०२६-दिनाङ्कात् अन्तर्जाल-आवेदनं कर्तुं शक्नुवन्ति।

कार्यक्रमानुसारं विद्यार्थिनः १५ मई २०२६ पर्यन्तं अन्तर्जाल-आवेदन-पत्रं पूरयितुं शक्नुवन्ति, यदा च आवेदन-पत्राणां सत्यापनं १९ मईमास-पर्यन्तं भविष्यति। अनन्तरं २० मई-दिनाङ्के अन्तिम-वरीयता-सूची तथा प्रतीक्षा-सूची प्रकाशिते भविष्यतः। चयनिताः अभ्यर्थिनः २५ मईमास-पर्यन्तं ‘ई-मित्र’-माध्यमेन शुल्कप्रदानम् अपेक्षितम्। प्रथम-प्रवेश-सूची २७ मई-दिनाङ्के प्रकाशिते भविष्यति, यदा च २९ मई-दिनाङ्के वर्ग-निर्धारणं विषय-आवंटनं च सम्पन्नं भविष्यति। यदि प्रथम-चरणानन्तरं आसनानि रिक्तानि भवन्ति, तर्हि श्रेणीवार-रिक्त-आसनानां कृते २९ मईतः ४ जून पर्यन्तं पुनः आवेदनानि आमन्त्रितानि भविष्यन्ति।

एतेषां आवेदनानां सत्यापनं ६ जून पर्यन्तं भविष्यति तथा ८ जून-दिनाङ्के रिक्त-आसनानां सूची प्रकाशिते भविष्यति। प्रमाणपत्र-सत्यापनं शुल्क-समर्पणं च कर्तुं ११ जून अन्तिम-तिथिः निर्धारिता। ततः १५ जून-दिनाङ्के प्रवेश-सूची प्रकाशिते भविष्यति तथा १६ जून-दिनाङ्के वर्ग-निर्धारणं विषय-आवंटनं च करिष्यते। अपि च ‘डिफॉल्टर’-विद्यार्थिनां कृते विशेष-अवसरः अपि प्रदत्तः। अस्मिन् चरणे १६ जून-दिनाङ्के वरीयता-सूची प्रकाशिते भविष्यति। सम्बन्धिताः विद्यार्थिनः २० जून पर्यन्तं प्रमाणपत्र-सत्यापनं शुल्क-समर्पणं च कर्तुं शक्नुवन्ति, यदा च अन्तिम-प्रवेश-सूची २२ जून-दिनाङ्के प्रकाशिते भविष्यति।

महाविद्यालय-शिक्षा-आयुक्तालयस्य अनुसारं स्नातक-प्रथम-सत्रस्य शैक्षणिक-सत्रे २०२६-२७ नियमित-शिक्षण-कार्यं १ जुलाईमासात् २०२६-दिनाङ्कात् आरभ्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता