Enter your Email Address to subscribe to our newsletters

चंडीगढम्, 01 मईमासः (हि.स.)।
ऋतुपरिवर्तनानन्तरं सीमा सुरक्षा बल (बीएसएफ) द्वारा अटारी सीमा-स्थिते भारत-पाकिस्तानसीम्नि प्रतिदिनं भवति या रिट्रीट-सेरेमनी, तस्याः समये परिवर्तनं कृतम्।
नवीननिर्णयानुसारं अधुना रिट्रीट-समारोहः सायं ६ वादनात् आरभ्य ६:३० वादनपर्यन्तं भविष्यति। पूर्वं तु एषः समारोहः सायं ५:३० वादनात् आरभ्य ६ वादनपर्यन्तं समाप्तः भवति स्म।
अधिकारिणां कथनानुसारं दर्शकानां उत्तमम् अनुभवं दातुं तथा च सुरक्षाव्यवस्थां सुचारुरूपेण स्थापयितुं समयपरिवर्तनम् आवश्यकम् आसीत्। एषः नवीनः समयः शुक्रवासरे, १ मई-दिनाङ्कात् प्रवर्तितः अस्ति।
---------------
हिन्दुस्थान समाचार