Enter your Email Address to subscribe to our newsletters

नवदिल्लीनगरम्, ०१ मईमास: (हि.स.)। सूचना-प्रसारण-मन्त्रालयेन शुक्रवासरे प्रसिद्धः चलच्चित्र-निर्देशकः आशुतोष-गोवारिकरः ५७तम-इण्टरनेशनल-भारत-चलच्चित्र-महोत्सवस्य (इफ्फी) महोत्सव-निर्देशकः नियुक्तः। अयं प्रतिष्ठितः चलच्चित्र-महोत्सवः गोवा-नगरे आयोजितः भवति।
आशुतोष-गोवारिकरः भारतीय-चलच्चित्र-क्षेत्रस्य सुप्रसिद्धः निर्देशकः अस्ति, इफ्फी-महोत्सवेन सह तस्य दीर्घकालिकः सम्बन्धः अपि अस्ति। सः १९८४ वर्षात् एतस्मिन् महोत्सवे सम्बद्धः अस्ति, तथा च २०२४ वर्षे अन्तरराष्ट्रीय-चलच्चित्र-ज्यूरी-अध्यक्षः अपि आसीत्।
स्वकीय-नियुक्तिं प्रति प्रतिक्रियां दत्त्वा गोवारिकरः उक्तवान् यत् अस्य प्रतिष्ठितस्य महोत्सवस्य महोत्सव-निर्देशकत्वेन सेवां कर्तुं तस्य कृते गर्वस्य हर्षस्य च विषयः अस्ति। सः अवदत् यत् १९५२ वर्षात् आरब्धस्य अस्य महोत्सवस्य परम्परां अग्रे नेतुं तस्य कृते गौरवस्य सह महती दायित्वता अपि अस्ति।
स: उक्तवान् यत् सः सूचना-प्रसारण-मन्त्रालयेन गोवा-राज्य-सर्वकारेण सह मिलित्वा अस्य आयोजनस्य सफलतायै कार्यं करिष्यति।
उल्लेखनीयम् अस्ति यत् १९५२ वर्षे स्थापितः इण्टरनेशनल-फिल्म-फेस्टिवल-ऑफ-इण्डिया एशिया-खण्डस्य प्रमुखेषु चलच्चित्र-महोत्सवेषु अन्यतमः अस्ति, यः वैश्विक-चलच्चित्राय मंचं दत्त्वा सांस्कृतिक-विनिमयस्य प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहति।
हिन्दुस्थान समाचार / अंशु गुप्ता