500 बेड मल्टी सुपर स्पेशियलिटीसौविध्येन युतस्य चिकित्सालयस्य विधायक डॉ नीलकंठः अकरोत् भूमिपूजनम्
—एसएसपीजीमंडलीयचिकित्सालयो निर्मितं सुपरस्पेशलिटीसौविध्यकेंद्रं, शुभारब्धं निर्माणकार्यम् वाराणसी, 10 मईमासः (हि.स.)।धर्मनगरी काशीस्थिते ऐतिहासिककबीरचौराक्षेत्रे श्रीशिवप्रसादगुप्त (एसएसपीजी) मण्डलीयचिकित्सालयः अधुना अत्याधुनिकसुपरस्पेशलिटीस्वास्थ
मल्टी सुपर स्पेशियलिटी चिकित्सालय के लिए भूमिपूजन करते विधायक नीलकंठ तिवारी


—एसएसपीजीमंडलीयचिकित्सालयो निर्मितं सुपरस्पेशलिटीसौविध्यकेंद्रं, शुभारब्धं निर्माणकार्यम्

वाराणसी, 10 मईमासः (हि.स.)।धर्मनगरी काशीस्थिते ऐतिहासिककबीरचौराक्षेत्रे श्रीशिवप्रसादगुप्त (एसएसपीजी) मण्डलीयचिकित्सालयः अधुना अत्याधुनिकसुपरस्पेशलिटीस्वास्थ्यकेन्द्ररूपेण विकसितः भविष्यति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः पहलया प्रायः ३१५.४८ कोटिरूप्यकव्ययेन निर्मीयमाणायाः अस्याः महत्त्वाकाङ्क्षिपरियोजनायाः शिलान्यासः २८ अप्रैलदिने स्वयं प्रधानमन्त्रिणा वाराणसीभ्रमणकाले कृतः आसीत्। रविवासरे वाराणसीनगरदक्षिणक्षेत्रस्य विधायकः तथा पूर्वमन्त्री डॉ. नीलकण्ठतिवारी वैदिकमन्त्रौच्चारणस्य मध्ये भूमिपूजनं कृत्वा निर्माणकार्यस्य विधिवत् शुभारम्भम् अकार्षीत्।

भूमिपूजनावसरे विधायकः डॉ. नीलकण्ठतिवारी उक्तवान् यत् एषा परियोजना केवलं नूतनभवननिर्माणपर्यन्तं सीमिता नास्ति, अपितु पूर्वाञ्चलस्य स्वास्थ्यसेवानां आधुनिकसुलभस्वरूपे विकासस्य दिशि महत्पदम् अस्ति। तेन उक्तं यत् दशकपुरातनम् एतद् चिकित्सालयं विश्वस्तरीयचिकित्सासुविधाभिः आधुनिकप्रौद्योगिकीभिश्च सुसज्जितं भविष्यति, येन दरिद्राः आवश्यकताग्रस्ताश्च रोगिणः उत्तमचिकित्सां प्राप्स्यन्ति।

—१५० वर्षप्राचीनस्य चिकित्सालयस्य भविष्यति आधुनिकपुनर्निर्माणम्

वर्षे १८७०-७५ मध्ये स्थापितः शिवप्रसादगुप्तचिकित्सालयः दीर्घकालात् पूर्वाञ्चलस्य लक्षशः रोगिणां चिकित्सायाः प्रमुखकेन्द्रं वर्तते। कालक्रमेण चिकित्सालयस्य भवनानि जीर्णानि अभवन् तथा आधुनिकसुविधानां आवश्यकता अनुभूयमाना आसीत्। अधुना पुरातनसंरचनां निष्कास्य अत्र अष्टमञ्जिलयुक्तम् अत्याधुनिकसुपरस्पेशलिटीभवनं निर्मास्यते। द्वाभ्यां टॉवराभ्यां युक्ते अस्मिन् विशालचिकित्सालयपरिसरे आईसीयू, कार्डियोलॉजी, कर्करोगः, न्यूरो, नेफ्रोलॉजी तथा ट्रॉमा इत्यादयः उन्नतचिकित्सासुविधाः उपलब्धाः भविष्यन्ति। चिकित्सालये हृदयेन, मस्तिष्केन तथा वृक्केन च सम्बद्धगम्भीररोगाणां चिकित्सायाः विशेषव्यवस्था भविष्यति। निर्माणकार्यस्य पूर्णतायाः अनन्तरं चिकित्सालयस्य शय्याक्षमता ३०० तः वर्धित्वा ५०० भविष्यति।

—हाईटेकसुविधाभिः सुसज्जितो भविष्यति नूतनपरिसरः

नूतनपरियोजनायाः अन्तर्गतं चिकित्सालये ५० अधिकाः आईसीयूशय्याः तथा १०० अधिकाः एचडीयूशय्याः विकसिताः भविष्यन्ति। एतदतिरिक्तं २० शय्यायुक्तम् आधुनिकडायलिसिसकेन्द्रम्, बालकेभ्यः समर्पिता चाइल्डयूनिट् तथा महिलाचिकित्सालयपरिसरे पृथक् पीडियाट्रिकआईसीयूब्लॉकस्य अपि योजना निर्मिता अस्ति। चिकित्सालये ओपीडी, आईपीडी, प्राइवेटवार्ड, प्रिजनरवार्ड, आइसोलेशनवार्ड, पैलिएटिवकेयरयूनिट्, बर्नवार्ड, डे-केयरकेन्द्रम्, आधुनिकपैथोलॉजीलैब, ब्लडबैंक्, माइक्रोबायोलॉजी तथा बायोकेमिस्ट्रीविभागाः स्थापिताः भविष्यन्ति। सहैव चत्वारः अत्याधुनिकाः ऑपरेशनथिएटराः तथा एकः इमरजेंसीओटी अपि निर्मास्यते। सीएसएसडी (सेन्ट्रलस्टरलाइज्डसप्लाईडिपार्टमेण्ट्) माध्यमेन चिकित्सालये उपयुज्यमानानि उपकरणानि सामग्रीश्च पूर्णतया रोगाणुमुक्तानि कृत्वा वितरितानि भविष्यन्ति।

—अनेकाः सुपरस्पेशलिटीसेवाः उपलब्धाः भविष्यन्ति

चिकित्सालये कार्डियोलॉजी, एंजियोप्लास्टी, गैस्ट्रोएन्टेरोलॉजी, यूरोलॉजी, न्यूरोसर्जरी, न्यूरोलॉजी, प्लास्टिकसर्जरी, आर्थोपेडिक्स तथा नेफ्रोलॉजी इत्यादयः सुपरस्पेशलिटीसेवाः उपलब्धाः भविष्यन्ति। सहैव फिजियोथेरेपी, फैमिलीमेडिसिन, दंत्यम्, आयुषं, जेरियाट्रिकमेडिसिन, मानसिकरोगचिकित्सा, न्यूट्रिशन तथा एनसीडीक्लिनिक इत्यादयः सुविधाः अपि विकसिताः भविष्यन्ति।

—काशीहिंदुविश्वविद्यालयस्य उपरि न्यूनः भविष्यति रोगिणां भारः

विधायकः डॉ. नीलकण्ठतिवारी उक्तवान् यत् वर्तमानकाले चिकित्सालयस्य ओपीडीविभागे प्रतिदिनं २ तः ३ सहस्रपर्यन्तं रोगिणः आगच्छन्ति, कदाचित् एषा संख्या ४ सहस्रपर्यन्तमपि गच्छति। वाराणस्याः अतिरिक्तं पूर्वाञ्चलात्, बिहारप्रदेशात्, मध्यप्रदेशात् तथा छत्तीसगढ़प्रदेशात् अपि बहुसंख्याकाः रोगिणः चिकित्सार्थम् अत्र आगच्छन्ति। तेन उक्तं यत् नूतनसुपरस्पेशलिटीकेन्द्रस्य निर्माणेन बीएचयूचिकित्सालयस्य उपरि रोगिणां दबावः न्यूनः भविष्यति तथा जनाः समये उत्तमचिकित्सां प्राप्स्यन्ति।

—पार्किंगसमस्यायाः अपि समाधानं भविष्यति

चिकित्सालयम् आगच्छतां रोगिणां परिचारकाणां च सुविधां दृष्ट्वा नूतनपरिसरे ६०० अधिकवाहनानां पार्किंगव्यवस्था विकसिताः भविष्यन्ति। एतेन चिकित्सालयपरिसरे यातायातस्य अव्यवस्थायाश्च समस्या पर्याप्तरूपेण न्यूनता गमिष्यति।

—भूमिपूजने उपस्थिताः आसन्

भूमिपूजनकार्यक्रमे सीएमओ, सीएमएस, भाजपामहानगरसङ्गठनस्य पदाधिकारी जगदीशत्रिपाठी, आत्माविश्वेश्वरः, डॉ. रचनाअग्रवालः, साधनावेदान्ती, आलोकश्रीवास्तवः, बबलूसेठः, राजीवसिंहडब्बू, तारकेश्वरगुप्त ‘बंटी’, संदीपचतुर्वेदी, पार्षदः संजयकेशरी, सन्तोषसोलापुरकरः, श्रवणगुप्तः, अभिजीतभारद्वाजः, पार्षदः इन्द्रेशसिंहः, अक्षयबरसिंहः, नलिननयनमिश्रः तथा कनकलतामिश्रः इत्यादयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार