Enter your Email Address to subscribe to our newsletters

रायगढ़म् 10 मईमासः (हि.स.)।
छत्तीसगढस्य वनप्रदेशात् उदिता एका प्रतिभा अद्य देशस्य सर्वोच्चसेवासु स्वस्थानं प्राप्तवती अस्ति तथा प्रदेशस्य नाम गौरवान्वितं कृतवती अस्ति। रायगढ-जिलायाः सम्बलपुरी-ग्रामस्य एकस्मात् साधारण-तेंदूपत्र-संग्राहक-परिवारात् आगतः अजय गुप्तः स्वस्य अटूट-संकल्पेन भारतीय-वन-सेवायाम् (आईएफएस) चयनितः भूत्वा एतत् सिद्धं कृतवान् यत् प्रतिभा न संसाधनानां, अपितु कठिन-संघर्षस्य सम्यक्-मार्गदर्शनस्य च अपेक्षां करोति।
रायगढस्य सम्बलपुरी-ग्रामे तेंदूपत्रं महुआ-फलानि च संगृह्णन् अजय गुप्तः अधुना आईएफएस-अधिकारी अभवत्। कठिन-परिस्थितिषु अध्ययनं कुर्वन् अजयः सम्पूर्णे देशे ९१ तमं स्थानं प्राप्तवान्। अधुना ते एव वनप्रदेशाः, ये पूर्वं तस्य परिवारस्य आजीविकायाः साधनम् आसन्, तेषामेव संरक्षणस्य उत्तरदायित्वं तस्य करयोः आगतम्।
अजय गुप्तः द्वादशकक्षायाम् अपि उत्कृष्टं प्रदर्शनं कृतवान्। ततः परं तस्मै राष्ट्रीय-प्रौद्योगिकी-संस्थाने (एनआईटी) रायपुर-नगरे प्रवेशः प्राप्तः। एनआईटी-संस्थायाम् अध्ययनकाले अपि तस्मै त्रिवर्षपर्यन्तं छात्रवृत्तिः प्राप्ता। अजयः वदति यत् पूर्वं स्वप्नानि अत्यन्तं विशालानि नासन्। तस्मै अनुभूयते स्म यत् अस्माकं संसारः केवलं ग्रामपर्यन्तमेव सीमितः अस्ति, किन्तु एनआईटी-संस्थायां प्रवेशानन्तरं दृष्टिकोणः परिवर्तितः। प्रथमवारं तस्मै अनुभूतं यत् अहम् अपि महत् कर्तुं शक्नोमि।
अजयः वदति यत् वनप्रदेशः तस्य बाल्यकालात् एव जीवनस्य अभिन्नः अंशः आसीत्। वनेन तस्मै केवलम् आजीविका न दत्ता, अपितु जीवनस्य दिशा अपि प्रदत्ता। सः वदति — “बाल्यकालात् एव मम वनैः सह गाढः सम्बन्धः आसीत्। वनैः मह्यं बहु किमपि दत्तम्। बस्तर-प्रदेशे कार्यं कुर्वतः मम वनैः सह सम्बन्धः अधिकं दृढः अभवत्।”
संघर्षभूमेः सफलतायाः आकाशपर्यन्तम्
अजयस्य बाल्यकालः वनप्रदेशेषु वनोपज-संग्रहणेन कृषिकार्येण च व्यतीतः। संघर्षपूर्ण-दिनान् स्मरन् अजयः कथयति यत् तस्य मातापितरौ अत्यधिकशिक्षितौ नास्ताम्, किन्तु तौ स्वसन्तानानां शिक्षामेव जीवनस्य लक्ष्यं मन्येते स्म। अवकाशकालेषु अजयः स्वयं वनं गत्वा तेंदूपत्र-संग्रहणे महुआ-फल-संग्रहणे च मातापित्रोः साहाय्यं करोति स्म।
अभावपूर्ण-परिस्थितिषु अपि सः दशमकक्षायां ९२.६६ प्रतिशताङ्कान् तथा द्वादशकक्षायां ९१.४० प्रतिशताङ्कान् प्राप्तवान् तथा स्वप्रतिभायाः परिचयं दत्तवान्।
शासकीय-योजनाभिः स्वप्नानां पक्षयोः बलप्रदानम्
अजयस्य अस्य दीर्घ-उड्डयने छत्तीसगढ-शासनस्य जनकल्याणकारी-योजनाभिः आर्थिक-साहाय्यं प्रदत्तम्। लघु-वनोपज-संघस्य छात्रवृत्त्या विद्यालयात् महाविद्यालय-पर्यन्तं अध्ययनकाले आर्थिकभारः न्यूनीकृतः। राज्यशासनस्य पोस्ट-मैट्रिक-छात्रवृत्ति-योजनया तस्मै निरन्तरं वित्तीय-साहाय्यं प्राप्तम्, येन सः स्वस्य परीक्षातयारीषु पूर्णतया एकाग्रः भवितुं समर्थः अभवत्।
अजयस्य सफलता छत्तीसगढस्य वनाश्रित-परिवाराणां विश्वासस्य विजयः — मुख्यमन्त्री विष्णुदेव साय
मुख्यमन्त्री विष्णुदेव साय रायगढ-जिलायाः अजय गुप्तं भारतीय-वन-सेवायाम् चयनितत्वेन अभिनन्दन् उक्तवान् यत् अजयेन न केवलं स्वमातापित्रोः मानः वर्धितः, अपितु सम्पूर्णः छत्तीसगढ-प्रदेशः गौरवान्वितः कृतः। मुख्यमन्त्री उक्तवान् यत् एतत् अत्यन्तं हर्षस्य विषयः अस्ति यत् यः युवकः स्वयं वनप्रदेशेषु तेंदूपत्रं महुआ-फलानि च संगृह्णाति स्म, सः अद्य तेषामेव वनानां संरक्षणस्य उत्तरदायित्वं वहिष्यति।
अस्माकं शासनस्य ‘लघु-वनोपज-संघ-छात्रवृत्ति’ तथा ‘पोस्ट-मैट्रिक-छात्रवृत्ति’ इत्यादयः योजनाः अजय-सदृशानां प्रतिभाशालिनां युवानां मार्गं सुकरं कृतवन्त्यः। अजयस्य उपलब्धिः एतत् दर्शयति यत् सम्यक्-अवसरप्राप्तौ अस्माकं ग्रामीण-अञ्चलस्य युवानः अपि देशस्य सर्वोच्च-सेवासु स्वस्थानं सुनिश्चितं कर्तुं शक्नुवन्ति।
वनमन्त्रिणा व्यक्तः गौरवभावः — सहस्रशः परिवाराणां स्वप्नानां प्रतीकः
वन-जलवायु-परिवर्तनमन्त्री केदार कश्यपः गत-रात्रौ अजय गुप्तं दूरभाषेण अभिनन्दितवान् तथा तस्य उपलब्धिं ऐतिहासिकीम् अवदत्। मन्त्रिणा उक्तं यत् अजयस्य सफलता छत्तीसगढस्य तेषां सहस्रशः वनाश्रित-परिवाराणां विजयः अस्ति ये वनप्रदेशेषु निवसन्तः महान् स्वप्नानि पश्यन्ति। एतत् सिद्धं करोति यत् अस्माकं योजनानां उद्देश्यं केवलम् आर्थिक-साहाय्यं दातुं नास्ति, अपितु सशक्त-भविष्यस्य निर्माणम् अपि अस्ति।
युवजनानां कृते नवीनः आदर्शः
अजय गुप्तः अद्य तेषां लक्षशः युवानां प्रेरणास्रोतः जातः अस्ति ये सीमित-संसाधनेषु आईएफएस-सदृशानां कठिन-परीक्षाणां सिद्धतां कुर्वन्ति। तस्य सफलता एतत् सन्देशं ददाति यत् यदि परिश्रमः सत्यः भवति तथा शासनस्य सहयोगः उपलब्धः भवति, तर्हि वनाञ्चलस्य कोऽपि युवकः देशस्य सर्वोच्च-पदं प्राप्तुं शक्नोति।
--------------
हिन्दुस्थान समाचार