Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 10 मईमासः (हि.स.)। अस्मिन् असमे भारतीयजनतापार्टी-नीतस्य राष्ट्रियजनतान्त्रिकगठबन्धनस्य नूतनसर्वकारगठनप्रक्रिया तीव्रा अभवत्। राजगविधायकदलस्य नेता तथा मुख्यमन्त्री डॉ॰ हिमन्तबिस्वसर्मा रविवासरे लोकभवने असमस्य राज्यपालं लक्ष्मणप्रसादाचार्यम् मिलित्वा राज्ये नूतनसर्वकारगठनस्य वादं प्रस्तुतवान्।
अस्मिन् अवसरे केन्द्रीयमन्त्री जेपी नड्डा, हरियाणामुख्यमन्त्री नायबसिंहसैनी, असमभाजपाध्यक्षः दिलीपसैकिया तथा राजगस्य अनेकाः विधायकाः अपि उपस्थिताः आसन्।
उल्लेखनीयं यत् असमे भाजपानेतृत्वाधीना नूतना राजगसर्वकारस्य शपथग्रहणसमारोहः आगामिनि १२ मई दिनांके आयोजितः भविष्यति। अस्मिन् समारोहे भाजपा तथा सहयोगिदलानां अनेके वरिष्ठनेतारः सहभागं करिष्यन्ति।-------------
हिन्दुस्थान समाचार