असमः भाजपा नीत एनडीए विधायक दलस्य उपवेशने नेतुः निर्वाचनम्
असमप्रदेशे भारतीयजनतापक्षस्य विधायकदलस्य अधिवेशनम् गुवाहाटी, 10 मईमासः (हि.स.)। असमप्रदेशे भारतीयजनतापक्षस्य (भाजपा) मुख्यालये अटल बिहारी वाजपेयी भवने अद्य भाजपा-नीतस्य एनडीए-गठबन्धनस्य सभा आयोजिता भविष्यति। अस्यां सभायां विधायकदलस्य नेतुः चयनं भव
भाजपा लोगो


असमप्रदेशे भारतीयजनतापक्षस्य विधायकदलस्य अधिवेशनम्

गुवाहाटी, 10 मईमासः (हि.स.)। असमप्रदेशे भारतीयजनतापक्षस्य (भाजपा) मुख्यालये अटल बिहारी वाजपेयी भवने अद्य भाजपा-नीतस्य एनडीए-गठबन्धनस्य सभा आयोजिता भविष्यति। अस्यां सभायां विधायकदलस्य नेतुः चयनं भविष्यति। ततः अनन्तरं सरकार-गठनार्थं दावापत्रं प्रस्तुतं करिष्यते।

भाजपायाः राष्ट्रिय-पर्यवेक्षकत्वेन केन्द्रीयमन्त्री जेपी नड्डा तथा उपपर्यवेक्षकत्वेन हरियाणाप्रदेशस्य मुख्यमन्त्री नायब सिंह सैनी गुवाहाटीं प्राप्तवन्तौ। वाजपेयी भवने भाजपा तथा सहयोगिदलानां विधायकाः प्रायेण समुपस्थिताः सन्ति। उल्लेखनीयम् अस्ति यत् २०२६ तमे विधानसभानिर्वाचने भाजपा १२६ आसनेषु ८२ आसनानि विजितवती। यदा च सहयोगिदलम् असम गण परिषद् (अगप) १० तथा बोडोलैण्ड पीपुल्स फ्रण्ट् (बीपीएफ) १० आसनानि प्राप्तवन्तौ, तदा एनडीए-गठबन्धनं समष्टिरूपेण १०२ आसनानि विजितवत्।

विधायकदलस्य सभां प्रति भाजपा मुख्यालये अद्य उत्सवसदृशं वातावरणं दृश्यते। उल्लेखनीयम् अस्ति यत् आगामी १२ मई दिने गुवाहाट्याः खानापाड़ा क्रीडाङ्गणे नूतनसरकारस्य शपथग्रहणसमारोहः आयोज्यते। अस्य कृते सज्जताः अन्तिमचरणे सन्ति।

हिन्दुस्थान समाचार