राजग विधायक दलस्य नेता चितो डॉ. हिमंत बिस्व सरमा
गुवाहाटी, 10 मईमासः (हि.स.)। असमराज्ये निरन्तरं तृतीयवारं भारतीयजनतापक्ष-नेतृत्वयुक्तस्य राष्ट्रियजनतान्त्रिकगठबन्धनस्य (राजग) सर्वकारस्य शपथग्रहणसमारोहः १२ मई तिथौ भविष्यति। अद्य असमप्रदेश-भाजपा-मुख्यालये अटल-बिहारी-वाजपेयी-भवने राजग-विधायक-दलस्य
असमः भाजपा नेतृत्वाधीन राजग के विधयक दल का नेता चुना जाने के बाद डॉ. हिमंत बिस्व सरमा को बधाई देते केंद्रीय मंत्री जेपी नड्डा


गुवाहाटी, 10 मईमासः (हि.स.)। असमराज्ये निरन्तरं तृतीयवारं भारतीयजनतापक्ष-नेतृत्वयुक्तस्य राष्ट्रियजनतान्त्रिकगठबन्धनस्य (राजग) सर्वकारस्य शपथग्रहणसमारोहः १२ मई तिथौ भविष्यति।

अद्य असमप्रदेश-भाजपा-मुख्यालये अटल-बिहारी-वाजपेयी-भवने राजग-विधायक-दलस्य नेतारूपेण निवर्तमानः मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा सर्वसम्मत्या निर्वाचितः।

अस्मिन् अवसरे भाजपायाः राष्ट्रिय-पर्यवेक्षकः केन्द्रीयमन्त्री जे. पी. नड्डा तथा हरियाणाराज्यस्य मुख्यमन्त्री नायबसिंहसैनी उपस्थितौ आस्ताम्। नड्डा महोदयेन विधायकदलस्य सभायां विधायकैः सह परामर्शानन्तरं डॉ. हिमन्तबिस्वशर्मा राजग-विधायक-दलस्य नेतारूपेण निर्वाचितः इति घोषणा कृता।

डॉ. हिमन्तबिस्वसरमानाम्ना अष्टभिः वरिष्ठविधायकैः प्रस्तावितम्। रञ्जीतकुमारदासः, बिश्वजीत्दैमारी, अजन्ता-नेओग्, रामेश्वरतेली, राजदीपरायः, अशोकसिंघलः, पीयूषहजारिका, चक्रधरगोगोई च तेषां नाम अनुमोदितवन्तः। ततः परं जे. पी. नड्डा महोदयेन डॉ. शर्मणः नाम उद्घोषितम्। विधायकदलस्य नेतुः नाम्नः घोषणया सह “भारतमातायै जयः”, “जय श्रीराम” इत्यादीनां घोषाणां निनादेन सम्पूर्णं भाजपा-मुख्यालयं गुञ्जितम्।

राजग-सहयोगिदलस्य असमगणपरिषदः (अगप) नेता अतुलबोरा तथा बोडोलैण्ड् पीपुल्स् फ्रण्ट् (बीपीएफ) दलस्य नेता रिहन्दैमारी अपि प्रस्तावं कृतवन्तौ। मञ्चे उभौ पर्यवेक्षकौ, प्रदेश-भाजपा-अध्यक्षः दिलीपसैकिया, प्रदेश-भाजपा-प्रभारी, प्रदेश-साङ्गठनिक-महासचिवः, अगप-दलस्य अध्यक्षः अतुलबोरा, बीपीएफ-दलस्य नेता रिहन्दैमारी तथा अन्ये अनेकाः वरिष्ठनेतारः उपस्थिताः आसन्।

उल्लेखनीयं यत् २०२६ वर्षस्य विधानसभानिर्वाचने भाजपया १२६ आसनेषु ८२ आसनानि विजितानि। सहयोगिदलेन असमगणपरिषदा १० तथा बोडोलैण्ड् पीपुल्स् फ्रण्ट्-दलेन १० आसनानि विजितानि, एवं कुलम् १०२ आसनेषु एनडीए-विजयः अभवत्।

उल्लेखनीयं यत् आगामिन्यां १२ मई तिथौ गुवाहाटीनगरस्य खानापाड़ा-क्रीडाङ्गणे नूतन-सरकारस्य शपथग्रहणसमारोहः आयोजितः भविष्यति। तदर्थं सज्जताः अन्तिमचरणे सन्ति।

डॉ. शर्मा अल्पकालानन्तरं भाजपा-मुख्यालयात् लोकभवनं प्रति प्रस्थितः भविष्यति। सः राज्यपालं मिलित्वा स्वसर्वकारस्य गठनार्थं तथ्यस्य प्रस्तुतोष्यति।

हिन्दुस्थान समाचार