कांग्रेसदलं करोति असत्यस्य विश्वासघातस्य च राजनीतिं, तदीयसत्ताग्रंथे सुशासनसंबद्धः कश्चित् अध्यायः एव न प्रधानमंत्री मोदी
बेंगलुरुः, 10 मईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीः रविवासरे उक्तवान् यत् काँग्रेस् दलं केवलं मिथ्यावचनस्य विश्वासघातस्य च राजनीतिं करोति। काँग्रेस्-दलस्य सत्ताग्रन्थे सुशासनस्य कश्चन अध्यायः एव नास्ति। तेन उक्तं यत् देशस्य जनता स्थैर्यस्य
प्रधानमंत्री नरेंद्र मोदी रविवार को बेंगलुरु में जनसभा को संबोधित करते हुए


बेंगलुरुः, 10 मईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदीः रविवासरे उक्तवान् यत् काँग्रेस् दलं केवलं मिथ्यावचनस्य विश्वासघातस्य च राजनीतिं करोति। काँग्रेस्-दलस्य सत्ताग्रन्थे सुशासनस्य कश्चन अध्यायः एव नास्ति। तेन उक्तं यत् देशस्य जनता स्थैर्यस्य, विकासस्य, राष्ट्रनीतेः च पक्षे तिष्ठति, अतः एव भारतीयजनतापक्षाय तथा एनडीए-संघटनाय निरन्तरं जनसमर्थनं प्राप्यते।

प्रधानमन्त्री एतां वार्तां कर्नाटकस्य बेङ्गलूरुनगरे आयोजितायां जनसभायाम् उक्तवान्। मोदी महोदयेन उक्तं यत् काँग्रेस् स्वयमेव मिथ्यावादी अस्ति तथा तस्याः गारण्ट्यः अपि मिथ्याः सन्ति। तेन आरोपः कृतः यत् कर्नाटके गतत्रिवर्षेषु जनसमस्याः समाधानं कर्तुं विहाय शासनस्य अधिकांशः कालः आन्तरिककलहे एव व्यतीतः। तेन उक्तं यत् राज्ये एतदपि निश्चितं न भवति यत् मुख्यमन्त्री कियत्कालं यावत् पदे भविष्यति तथा कस्य अवसरः भविष्यति।

प्रधानमन्त्री काँग्रेस्-दलं “परजीविपक्षः” इति निरूप्य उक्तवान् यत् तत् स्वसहयोगिभिः सह अपि विश्वासघातं करोति। तमिळनाडुराज्ये काँग्रेस्-दलस्य एम्. के. स्टालिन्-नेतृत्वयुक्तया द्रमुक्-पक्षेण सह सम्बन्धानाम् उल्लेखं कुर्वन् तेन उक्तं यत् बहुवर्षीयगठबन्धनस्य अनन्तरमपि काँग्रेस् दलं सत्तालोभेन स्वसहयोगिनः “पृष्ठे छुरिकाघातं कृतवती”।

मोदी महोदयेन उक्तं यत् भाजपासरकाराणां कृते लोककल्याणम् एव सर्वोपरि अस्ति तथा तेषां मन्त्रः “सर्वेषां सहयोगः, सर्वेषां विकासः” इति अस्ति। तेन उक्तं यत् भाजपायाः प्रतिरूपं सुशासनस्य प्रतिरूपम् अस्ति, अतः एव जनता विभिन्नेषु राज्येषु भाजपायै द्वितीयवारं तृतीयवारं च सेवायाः अवसरं ददाति, यदा तु काँग्रेस्-शासितराज्यानि पुनः सत्तां प्राप्तुं विफलानि अभवन्।

प्रधानमन्त्री उक्तवान् यत् गतद्वादशवर्षेभ्यः केन्द्रे एनडीए-सरकारः अस्ति तथा देशस्य एकविंशत्यधिकेषु राज्येषु भाजपा अथवा एनडीए-सरकाराः विकासमन्त्रेण सह कार्यं कुर्वन्ति। तेन काँग्रेस्-दलेन लोकतान्त्रिकसंस्थासु, संवैधानिकप्रक्रियासु, न्यायपालिकायां च द्वेषस्य प्रसारः क्रियते इति आरोपः कृतः। मोदी महोदयेन उक्तं यत् काँग्रेस् एतावतीं निराशां प्राप्तवती यत् तस्याः समीपे गालीप्रदानं, अशिष्टभाषा च विना अन्यः कश्चन कार्यक्रमः न अवशिष्टः।

तेन नवीननिर्वाचनपरिणामानाम् अपि उल्लेखः कृतः। तेन उक्तं यत् पुडुचेरीप्रदेशे निरन्तरं द्वितीयवारं एनडीए-सरकारः स्थापितः। असमराज्ये तृतीयवारं एनडीए जनादेशं प्राप्तवान् तथा पश्चिमबङ्गप्रदेशे भाजपायै प्रथमवारं एतादृशं महत् समर्थनं प्राप्तम्। तेन उक्तं यत् एते परिणामाः देशस्य युवानां, महिलानां, कृषकाणां, निर्धनानां, मध्यमवर्गस्य च मनोभावं दर्शयन्ति तथा एषः सन्देशः ददति यत् भारतस्य जनता स्थैर्यम् इच्छति।

मोदी महोदयेन उक्तं यत् देशस्य जनतायै “वेगः आवश्यकः, न तु घोटालाः”, “समाधानम् आवश्यकम्” तथा “राष्ट्रनीतियुक्ता राजनीति आवश्यकाः” इति। तेन उक्तं यत् अद्य सम्पूर्णः देशः भाजपायाः राष्ट्रनीत्या सह पदेन पदं मिलित्वा गच्छति।

प्रधानमन्त्री पश्चिमबङ्गप्रदेशे तथा केरलराज्ये भाजपायाः विस्तारस्य अपि उल्लेखं कृतवान्। तेन उक्तं यत् कदाचित् पश्चिमबङ्गे भाजपायाः केवलं त्रयः विधायकाः आसन्, किन्तु अद्य तत्र भाजपायाः शासनम् अस्ति। तेन एतदपि उक्तं यत् केरलराज्ये भाजपायाः शक्तिः निरन्तरं वर्धते तथा भविष्ये तत्रापि भाजपा-नेतृत्वयुक्तं गठबन्धनं बहुमतस्य सीमां अतिक्रमिष्यति।

मोदी महोदयेन उक्तं यत् १० मई इति तिथिः ऐतिहासिकी अस्ति, यतः १८५७ तमे वर्षे अस्मिन्नेव दिने स्वतन्त्रतासंग्रामस्य प्रथमः ज्वालास्फुलिङ्गः उत्पन्नः, यः अनन्तरं आङ्ग्लशासनस्य शृङ्खलाः भग्नवान्। तेन उक्तं यत् शौर्यस्य सामर्थ्यस्य च एषा परम्परा देशस्य महत्तमा शक्तिः अस्ति। प्रधानमन्त्री “ऑपरेशन् सिन्दूर” इत्यस्य प्रथमवार्षिकोत्सवस्य अपि उल्लेखं कृतवान् तथा उक्तवान् यत् सः गुजरातस्य सोमनाथक्षेत्रे मन्दिरपुनर्निर्माणस्य पञ्चसप्ततिवर्षपूर्तेः समारोहं सहभागित्वेन उपस्थितः भविष्यति।

---------------

हिन्दुस्थान समाचार