Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 10 मईमासः (हि.स.)।
दिल्लीनगरस्य मुख्यमन्त्री रेखागुप्ता पण्डितदीनदयालउपाध्यायप्रशिक्षणमहाअभियान-२०२६ अन्तर्गतं रविवासरे नयीदिल्ली तथा करोलबागजनपदयोः प्रशिक्षणवर्गं सम्बोधितवती।
रेखागुप्ता उक्तवती यत् कस्यापि संगठनस्य कृते प्रणः तथा प्रशिक्षणम् उभयमपि अनिवार्यम् अस्ति। तया उक्तं यत् प्रशिक्षणं सा प्रक्रिया अस्ति या कार्यकर्तुः अन्तः वैचारिकस्पष्टतां कार्यकुशलतां च विकसितं करोति। तया उक्तं यत् भाजपायाः कार्यकर्ता एव सा धुरी अस्ति या संगठनस्य विचारान् सरकारस्य जनकल्याणकारीनीतीश्च जनजनपर्यन्तं प्रापयति। यदा कार्यकर्ता प्रशिक्षितः संकल्पितश्च भवति तदा राष्ट्रनिर्माणस्य संकल्पः सिद्धिं प्राप्नोति। तया उक्तं यत् अद्य प्रधानमन्त्रिणः मोदिनः नेतृत्वे देशस्य कोणे-कोणे विचारधारायाः अभूतपूर्वः विस्तारः अभवत्। अङ्ग, बङ्ग तथा कलिङ्गप्रदेशेभ्यः गङ्गोत्रीतः गङ्गासागरपर्यन्तं सर्वत्र सेवा तथा सुशासनस्य कमलं प्रस्फुटितम् अस्ति। एतत् भाजपायाः लक्षशः निष्ठावतां कार्यकर्तॄणां समर्पणस्य अटूटपरिश्रमस्य च परिणामः अस्ति।
अस्मिन् अवसरे भाजपासांसदः बांसुरीस्वराजः, भाजपाजिलाध्यक्षः वीरेन्द्रबब्बरः सहिताः कार्यकर्तारः पदाधिकारिणश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार