जलेश्वर महादेव धाम्नि मुख्यमंत्री सायोऽकरोत् जलाभिषेकं, प्रदेशस्य सुख-समृद्ध्योः कामना कृता
कृषकाणां, श्रद्धालूनां तथा ग्रामवासिनां हितार्थं मुख्यमन्त्रिणः सायस्य महत्त्वपूर्णाः घोषणाः, जलेश्वरमहादेवधाम्नो विकासेन सह क्षेत्रीयाधोसंरचनायाः विस्तारः भविष्यति। रायपुर, १० मई (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य रविवासरे कबीरधामजिलायाः पं
मुख्यमंत्री साय जलेश्वर महादेव धाम में पूजा-अर्चना कर जलाभिषेक करते हुए


कृषकाणां, श्रद्धालूनां तथा ग्रामवासिनां हितार्थं मुख्यमन्त्रिणः सायस्य महत्त्वपूर्णाः घोषणाः, जलेश्वरमहादेवधाम्नो विकासेन सह क्षेत्रीयाधोसंरचनायाः विस्तारः भविष्यति।

रायपुर, १० मई (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य रविवासरे कबीरधामजिलायाः पंडरियाविकासखण्डान्तर्गतं डोंगरियाग्रामं प्राप्य प्रसिद्धे जलेश्वरमहादेवधाम्नि विधिविधानपूर्वकं पूजार्चनां कृत्वा जलाभिषेकम् अकरोत्। मुख्यमन्त्री सायः भगवान् भोलेनाथात् प्रदेशवासिनां सुखशान्तिसमृद्धिसौभाग्यानां कामनां कृतवान्। अस्मिन् अवसरॆ उपमुख्यमन्त्री विजयशर्मा, राज्यसभासांसदः लक्ष्मीवर्मा, पंडरियाविधायिका भावना बोहरा, तखतपुरविधायकः धर्मजीतसिंहः सहिताः अनेकाः जनप्रतिनिधयः, समाजस्य पदाधिकारीणः तथा श्रद्धालवः उपस्थिताः आसन्।

मुख्यमन्त्री सायः अवदत् यत् छत्तीसगढस्य सांस्कृतिकआध्यात्मिकपरम्पराः अस्माकं परिचयः सन्ति। एते पवित्रधामाः केवलम् आस्थाकेन्द्राणि न, अपितु समाजस्य एकीकरणं तथा सांस्कृतिकविरासतायाः जीवंततां धारयन्तः प्रेरणास्थलानि अपि सन्ति। तेन उक्तं यत् राज्यशासनं विकासेन सह सांस्कृतिकधार्मिकधरोहराणां संरक्षणसंवर्धनयोः कृते अपि निरन्तरं कार्यं करोति।

मुख्यमन्त्री विष्णुदेवसायः अस्मिन् अवसरे क्षेत्रस्य विकासाय जनसुविधानां विस्ताराय च अनेकाः महत्त्वपूर्णाः घोषणाः अपि कृतवान्। तेन क्षीरपानीजलाशयमध्यमपरियोजनायाः अन्तर्गतं ५० कोटिरूप्यकव्ययेन नहरविस्तारीकरणकार्यस्य घोषणां कृतवान्। अस्याः परियोजनायाः माध्यमेन प्रायः ११०० हेक्टेयरमितक्षेत्रे सिंचाईसुविधायाः विस्तारः भविष्यति तथा कृषकाः महान् लाभं प्राप्स्यन्ति। मुख्यमन्त्री सायः जलेश्वरमहादेवधामस्य विकासाय सौन्दर्यीकरणाय च ५० लक्षरूप्यकाणां स्वीकृतिं घोषयामास। सहैव तेन खरहट्टातः डोंगरियापर्यन्तं प्रायः २.५ किलोमीटर् मार्गस्य उन्नयनकार्यस्य घोषणां कृत्वा उक्तं यत् अनेन क्षेत्रे आवागमनम् अधिकं सुगमं सुविधाजनकं च भविष्यति।

उल्लेखनीयम् अस्ति यत् कबीरधामजिल्लायाः डोंगरियाग्रामस्थितं जलेश्वरमहादेवधाम स्थानीयश्रद्धालूनां मध्ये अत्यन्तं पूजनीयस्थलरूपेण प्रसिद्धम् अस्ति। मान्यता अस्ति यत् अत्र स्थितं शिवलिङ्गं प्राकृतिकरूपेण प्रकटितम्। प्राकृतिकसौन्दर्येण परिवेष्टितम् एतत् शिवधाम विशेषतः श्रावणमासे, श्रावणसोमवासरे तथा महाशिवरात्र्याः अवसरे श्रद्धालूनां आस्थायाः प्रमुखकेन्द्रं भवति। पर्वतनदीघाटयोः रमणीयवातावरणे स्थितम् एतत् धाम शिवभक्तेः आध्यात्मिकऊर्जायाः च विशेषपरिचयं धारयति।

---

हिन्दुस्थान समाचार