इतिहासस्य पृष्ठेषु 11 मई : भारतस्य वैज्ञानिकबलं राष्ट्रियस्य प्रौद्योगिकीदिवसस्य प्रतीकम्
भारतस्य तथा विश्वइतिहासस्य सन्दर्भे ११ मई तिथिः अनेकाभिः महत्त्वपूर्णाभिः घटनाभिः स्मर्यते, किन्तु भारतस्य विज्ञान-प्रौद्योगिकीक्षेत्रे अस्य दिवसस्य विशेषं महत्त्वम् अस्ति। भारतदेशे प्रतिवर्षं ११ मई दिनाङ्के “राष्ट्रीय प्रौद्योगिकी दिवसः” इति रूपेण
सांकेतिक।


भारतस्य तथा विश्वइतिहासस्य सन्दर्भे ११ मई तिथिः अनेकाभिः महत्त्वपूर्णाभिः घटनाभिः स्मर्यते, किन्तु भारतस्य विज्ञान-प्रौद्योगिकीक्षेत्रे अस्य दिवसस्य विशेषं महत्त्वम् अस्ति। भारतदेशे प्रतिवर्षं ११ मई दिनाङ्के “राष्ट्रीय प्रौद्योगिकी दिवसः” इति रूपेण आचर्यते। अस्य दिवसस्य उद्देश्यं वैज्ञानिकानां, अभियन्तॄणां तथा प्रौद्योगिकीविशेषज्ञानां योगदानस्य सम्मानः तथा देशे वैज्ञानिकचिन्तनस्य प्रोत्साहनं भवति।

अस्य दिवसस्य ऐतिहासिकी पृष्ठभूमिः १९९८ तमे वर्षे सम्बद्धा अस्ति, यदा भारतेन “पोखरण-द्वितीय” अभियानस्य अन्तर्गतं राजस्थानस्य पोखरण-परीक्षण-क्षेत्रे सफलाः परमाणुपरीक्षणाः कृताः, येन समग्रः विश्वः विस्मितः अभवत्। ११ तथा १३ मई १९९८ दिनयोः सम्पन्नेषु पञ्च परमाणुपरीक्षणेषु भारतं वैश्विक-परमाणुशक्तिरूपेण प्रतिष्ठितम् अभवत्।

तत्कालीनप्रधानमन्त्रिणः अटल बिहारी वाजपेयी महोदयस्य नेतृत्वे एतदभियानं अत्यन्तगोपनीयरीत्या सम्पन्नम्। कथ्यते यत् विश्वस्य प्रमुखगुप्तचरसंस्थाः उपग्रह-निगराणीतन्त्राणि च अपि अस्य सूचना न प्राप्तवन्तः। परीक्षणस्य सफलतायाः अनन्तरं वाजपेयी महोदयः राष्ट्रं सम्बोध्य भारतस्य परमाणुशक्तिसम्पन्नराष्ट्रत्वस्य घोषणा कृतवान्।

एतेषु परीक्षणेषु भारतस्य पूर्वराष्ट्रपतिः प्रसिद्धवैज्ञानिकः एपीजे अब्दुल कलाम महोदयः अपि अत्यन्तमहत्त्वपूर्णां भूमिकां निर्वहितवान्। तेन परीक्षणस्य सफलतायाः पुष्टि कृता। पश्चात् कलाम महोदयः उक्तवान् यत् तस्मिन् समये अन्तरराष्ट्रीयदबावः अत्यधिकः आसीत्, तथापि भारतेन आत्मनिर्भरता तथा राष्ट्रियसुरक्षा प्राधान्येन स्वीकृता।

अस्मिन्नेव दिने भारतेन स्वदेशी-विमानस्य “हंसा-३” इत्यस्य सफलपरीक्षणं कृतम्, तथा “त्रिशूल” क्षेपणास्त्रपरीक्षणे अपि सफलता प्राप्ता। एतासां उपलब्धीनां दृष्ट्या वाजपेयी-सरकारेण ११ मई दिनाङ्कः “राष्ट्रिय प्रौद्योगिकी दिवसः” इति घोषितः। अस्मिन् अवसरे वाजपेयी महोदयेन “जय जवान, जय किसान, जय विज्ञान” इति घोषवाक्यं प्रदत्तम्, यत् अद्यापि भारतस्य वैज्ञानिकप्रगतिः तथा आत्मनिर्भरत्वस्य प्रतीकं मन्यते।

महत्त्वपूर्णाः घटनाः

१७५२ — अमेरिकादेशस्य फिलाडेल्फिया-नगरे अग्निबीमायोजनायाः आरम्भः अभवत्।

१७८४ — आङ्ग्लानां तथा मैसूरराज्यस्य शासकस्य टीपू सुल्तानस्य मध्ये सन्धिः अभवत्।

१८३३ — अमेरिकादेशात् क्यूबेक-नगरं प्रति गच्छन् “लेडी ऑफ द लेक” नामकः जलयानः हिमशिलया टक्करतः अटलाण्टिक-महासागरे निमग्नः, यस्मिन् २१५ जनाः मृताः।

१९४० — ब्रिटिश ब्रॉडकास्टिंग सर्विस् संस्थया हिन्दी-सेवायाः आरम्भः कृतः।

१९५१ — राष्ट्रपतिना राजेन्द्र प्रसाद महोदयेन नवनिर्मितस्य सोमनाथ-मन्दिरस्य उद्घाटनं कृतम्।

१९६२ — सर्वपल्ली राधाकृष्णन महोदयः भारतस्य राष्ट्रपतित्वेन निर्वाचितः।

१९६५ — बाङ्ग्लादेशे चक्रवातेन १७,००० जनानां मृत्युर्अभवत्।

१९८८ — फ्रान्सदेशेन परमाणुपरीक्षणं कृतम्।

१९९५ — संयुक्तराष्ट्रमहासभायाः सम्मेलनस्य समाप्तौ परमाण्वप्रसारनिषेधसन्धिः अनिश्चितकालपर्यन्तं स्थायी कृता।

१९९८ — भारतेन राजस्थानस्य पोखरणे त्रयः परमाणुपरीक्षणाः कृताः।

१९९८ — यूरोपस्य एकलमुद्रायाः “यूरो” इत्यस्य प्रथमः सिक्कः निर्मितः।

२००० — देहलीस्थिते सफदरजंग-अस्पताले “आस्था” नाम्नी भारतस्य एक-अरबतमं शिशु जातम्।

२००१ — संयुक्तराज्य-अमेरिकायाः प्रक्षेपास्त्ररक्षाप्रणाल्यै भारतस्य समर्थनम्।

२००२ — बाङ्ग्लादेशे नौकादुर्घटनायां ३७८ जनाः मृताः।

२००५ — बगलिहार-परियोजनाविषये भारत-पाकिस्तानयोः विवादनिवारणार्थं विश्वबैंकद्वारा तटस्थविशेषज्ञः नियुक्तः।

२००७ — इस्रायलदेशेन हमास-संबद्धा “रिफॉर्म एण्ड चेंज पार्टी” अवैधघोषिता।

२००८ — न्यूयॉर्कस्थितस्य कॉर्नेल-विश्वविद्यालयस्य वैज्ञानिकैः प्रथमः आनुवंशिकरूपेण परिवर्तितः मानवभ्रूणः निर्मितः।

२००८ — दक्षिण-वजीरिस्तान-प्रदेशे नाटो-सेनया आक्रमणं कृतम्।

२०१० — एसएच कपाड़िया महोदयः भारतस्य ३८तमः प्रधानन्यायाधीशः अभवत्।

२०१० — भारतस्य सर्वोच्चन्यायालयेन पंचायत-स्थानीयनिर्वाचनेषु राज्यसरकारस्य आरक्षणप्रदानाधिकारः मान्यः कृतः।

जन्म

१९५७ — शक्ति सिन्हा — अटल बिहारी वाजपेयी महोदयस्य निजी-सचिवः।

१९३३ — सागर सरहदी — हिन्दीचलच्चित्रजगतः प्रसिद्धः पटकथालेखकः।

१९१८ — मृणालिनी साराभाई — भारतस्य प्रसिद्धा शास्त्रीय-नृत्याङ्गना।

१९१२ — सआदत हसन मंटो — कथाकारः, लेखकः, पत्रकारः च।

१९०४ — के वी के सुन्दरम् — भारतस्य द्वितीयः मुख्यनिर्वाचनायुक्तः।

१९०३ — एस एम श्रीनागेश — भारतीय-थलसेनायाः तृतीयः सेनाध्यक्षः।

निधनानि

२००२ — आबिदा सुल्तान — भोपाल-रियासतस्य राजकुमारी तथा भारतस्य प्रथमा महिला-विमानचालिका।

महत्त्वपूर्णः अवसरः

राष्ट्रिय-प्रौद्योगिकी-दिवसः।

हिन्दुस्थान समाचार