Enter your Email Address to subscribe to our newsletters


धर्मशाला, 10 मईमासः (हि.स.)।
हिमाचलप्रदेश-विद्यालय-शिक्षा-मण्डलेन रविवासरे दशमकक्षायाः परीक्षाफलम् प्रकाशितम्। अस्मिन् वारे परीक्षायां ९३,६६१ छात्राः सहभागी अभवन्, तेषु ७८,१५० छात्राः उत्तीर्णाः अभवन्। एवं परीक्षाफलं ८३.८७ प्रतिशतं जातम्। अपरं ८,४३३ छात्रेभ्यः कम्पार्टमेण्ट् प्राप्तम्। अनुत्तीर्ण-छात्राणां संख्या ६,५५९ आसीत्।
परीक्षाफलस्य घोषणां कुर्वन् मण्डलस्य अध्यक्षः डॉ. राजेशशर्मा उक्तवान् यत् काङ्गड़ा-जनपदस्य निजी-विद्यालयस्य छात्रा अनमोल प्रदेशस्य शीर्ष-स्थानं प्राप्तवती। अनमोल ७०० अङ्केषु ६९९ अङ्कान् प्राप्त्वा प्रथमस्थानं प्राप्तवती। तेन उक्तं यत् अद्य केवलं प्रोविजनल्-मेधासूची प्रकाशिताऽस्ति, जून-मासे परिवर्तनानन्तरं अन्तिम-मेधासूची प्रकाशिता भविष्यति।
काङ्गड़ायाः अनमोल शीर्षस्थाने
दशमकक्षायाः परीक्षायां अस्मिन् वारे एवीएम् पब्लिक्-स्कूल् पहाड़ा, काङ्गड़ा-जनपदस्य छात्रा अनमोल ७०० अङ्केषु ६९९ अङ्कान् प्राप्त्वा प्रथमस्थानं प्राप्तवती। द्वितीयस्थाने त्रयः छात्राः— अभिनव-मेहता (ऊना), पूर्णिमा (जीएसएसएस बिलासपुर) तथा रोहिणी-धीमान— ७०० अङ्केषु ६९८ अङ्कान् प्राप्तवन्तः। अपरं निजी-विद्यालयस्य हमीरपुर-जनपदस्य छात्रा अश्विका-शर्मा तथा ऑक्सफोर्ड्-स्कूल् कोटली-मण्डी इत्यस्य अलीशा-ठाकुर ६९७ अङ्कान् प्राप्त्वा तृतीयस्थानं प्राप्तवत्यौ।
मण्डलाध्यक्षः डॉ. राजेशशर्मा उक्तवान् यत् गतवर्षस्य अपेक्षया परीक्षाफले वृद्धिः अभवत्। परीक्षासु सुधारार्थं महत्त्वपूर्णाः प्रयासाः कृताः। अस्मिन् एमसीक्यू तथा कम्पिटेन्सी-आधारित-प्रश्नानां प्रश्नपत्रेषु च महत्त्वपूर्णाः परिवर्तनाः कृताः। तेन उक्तं यत् अस्मिन् वारे परीक्षार्थं राज्ये सर्वत्र २,३८४ परीक्षा-केन्द्राणि निर्मितानि। अस्मिन् वारे परीक्षा-केन्द्राणां प्रत्यक्ष-निगरानी अपि कृता। आगामिवर्षे ऑडियो-वीडियो-कैमेरैः परीक्षा-केन्द्रेषु निगरानी कृता भविष्यति। तदतिरिक्तं मूल्याङ्कनार्थं ४१ केन्द्राणि निर्मितानि, यत्र २,९०० शिक्षकाः सेवां प्रदत्तवन्तः।
विद्यालय-शिक्षा-मण्डलस्य अध्यक्षः उक्तवान् यत् परीक्षाफलस्य समये प्रकाशनार्थं विशेषाः प्रयासाः कृताः, येन हिमाचल-मण्डलम् अद्य पञ्चमस्थाने अस्ति। तेन उक्तं यत् अस्मिन् वारे जून-मासे दशमकक्षायां कम्पार्टमेण्ट्-प्राप्ताः परीक्षार्थिनः पुनः परीक्षा दातुं शक्नुवन्ति। अनेन छात्रेभ्यः स्वाङ्कानां सुधारस्य अवसरः अपि भविष्यति। किन्तु अनुत्तीर्ण-छात्रेभ्यः जून-मासे परीक्षा-दाने अवसरः न भविष्यति। अस्मिन् अवसरे मण्डल-सचिवः डॉ. मेजर् विशालशर्मा अपि उपस्थितः आसीत्।
हिन्दुस्थान समाचार