योगीसर्वकारे जल जीवन मिशननिमित्तं मिलति पूर्णं राजस्वं,शीघ्रं भविष्यति पूर्णं लक्ष्यम्
-केंद्रस्य राज्यसर्वकारस्य च प्रायेण28 सहस्रकोटि रुप्यकैः पूर्णं भविष्यति अपूर्णं कार्यम् लखनऊ, 10 मईमासः (हि.स.)। उत्तरप्रदेशे जलजीवनमिशनम् (हरघरनलयोजना) केवलं सर्वकारीयोजना नास्ति, अपितु एषा ग्रामीणजीवनशैल्याः महत्परिवर्तनस्य प्रतीकं जाता अस्त
मुख्यमंत्री योगी आदित्यनाथ


-केंद्रस्य राज्यसर्वकारस्य च प्रायेण28 सहस्रकोटि रुप्यकैः पूर्णं भविष्यति अपूर्णं कार्यम्

लखनऊ, 10 मईमासः (हि.स.)।

उत्तरप्रदेशे जलजीवनमिशनम् (हरघरनलयोजना) केवलं सर्वकारीयोजना नास्ति, अपितु एषा ग्रामीणजीवनशैल्याः महत्परिवर्तनस्य प्रतीकं जाता अस्ति। मुख्यमन्त्रिणः योगिआदित्यनाथस्य नेतृत्वे एतन्मिशनं युद्धस्तरेण कार्यान्वितं क्रियते। अस्याः श्रृङ्खलायां केन्द्रसर्वकारतः उत्तरप्रदेशस्य कृते त्रयोदशसहस्रचतुःशतपञ्चविंशतिकोटिरूप्यकाधिकं वित्तविनियोजनं कृतम् अस्ति। अपरं उत्तरप्रदेशसर्वकारः अपि ग्रामीणजलापूर्तिविभागाय योजनानां पूर्त्यर्थं वर्षे २०२६-२७ मध्ये प्रायः पञ्चदशसहस्रकोटिरूप्यकाणि दास्यति। एतेन अष्टाविंशतिसहस्रकोटिरूप्यकाधिकेन वित्तविनियोजनेन शुद्धपेयजलस्य आपूर्तौ काचिदपि बाधा न भविष्यति।

उत्तरप्रदेशसर्वकारस्य लक्ष्यं वर्तते यत् प्रदेशे २.६२ कोटिग्रामीणपरिवारपर्यन्तं नलमार्गेण शुद्धपेयजलम् आपाद्येत। एतत् लक्ष्यं अधुना जलजीवनमिशन २.० इत्यस्य माध्यमेन साध्यं भविष्यति। वस्तुतः उत्तरप्रदेशसरकारस्य तथा केन्द्रीयपेयजलस्वच्छताविभागस्य मध्ये जलजीवनमिशन २.० अन्तर्गतं समझौताज्ञापनपत्रे (एमओयू) हस्ताक्षरं सम्पन्नम् अस्ति। अस्मिन् जलजीवनमिशनस्य समयसीमा जलजीवनमिशन २.० रूपेण दिसम्बर २०२८ पर्यन्तं विस्तारितम् अस्ति। सहैव वर्तमानवित्तीयवर्षस्य कृते उत्तरप्रदेशाय त्रयोदशसहस्रचतुःशतपञ्चविंशतिकोटिरूप्यकाणि अपि विनियोजितानि सन्ति।

एसडब्ल्यूएसएम, नमामिगङ्गे तथा ग्रामीणजलापूर्तिविभागस्य विशेषसचिवः तथा कार्यपालकनिदेशकः प्रभासकुमारः उक्तवान् यत् मिशनस्य नूतनस्वरूपेण सह नूतनदायित्वानि अपि सम्बद्धानि सन्ति। जलजीवनमिशन २.० अन्तर्गतं प्रदेशे जलगुणवत्तापरीक्षणे विशेषध्यानं दास्यते। विन्ध्यबुन्देलखण्डसहितेषु प्रदेशस्य अनेकेषु क्षेत्रेषु जले रासायनिकतत्त्वानां परीक्षणं कृत्वा तत् पेययोग्यं करणं अत्यावश्यकम् अस्ति। एतदर्थं जलस्य गुणवत्तायाः परीक्षणं क्रियते।

जनसहभागिता अपि अस्य द्वितीयं महत्त्वपूर्णं बिन्दुं वर्तते। प्रदेशे जलापूर्त्यर्थं निर्मिताः पम्पगृहाः, जलसञ्चयटङ्कयः तथा अन्ये निर्माणकार्याणि सम्पन्नानि भूत्वा ग्रामपेयजलस्वच्छतासमितये (वीडब्ल्यूएससी) समर्पितानि भविष्यन्ति। दशवर्षपर्यन्तं जलनिगमः, वीडब्ल्यूएससी, निर्माणसंस्थाः तथा ठेकेदाराः मिलित्वा एतेषां सुचारुसञ्चालनं सुनिश्चितं करिष्यन्ति। जलस्रोतसंरक्षणे अपि विशेषध्यानं दास्यते, येन एकवारं निर्माणं सम्पन्ने सति कश्चन बोरवेल्, पम्पः अथवा जलस्रोतः न शुष्येत्। एतेन सर्वेषु ग्रामीणक्षेत्रेषु जलापूर्तिः सुनिश्चितं भविष्यति।

प्रभासकुमारः उक्तवान् यत् वर्षे २०२७ मध्ये सर्वेषां कार्याणां प्रगतिः केन्द्रीयसरकारेण समीक्षिता भविष्यति, येन लक्ष्यपूर्तिः सुनिश्चितं कर्तुं शक्येत। जलजीवनमिशन २.० अन्तर्गतं सर्वाः नूतनप्राथमिकताः प्रदेशे कार्यान्विताः भविष्यन्ति। विभागस्य अनुसारं जलजीवनमिशनस्य अन्तर्गतं अद्यावधि २.४३ कोट्यधिकग्रामीणपरिवारेभ्यः नलकनेक्शनं प्रदत्तम् अस्ति। अपरं वर्षे २०२६-२७ मध्ये २.६२ कोटिकनेक्शनलक्ष्यस्य पूर्त्यर्थं योजना कार्यान्विता भवति।

---------------

हिन्दुस्थान समाचार